SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ केपिद प्रन्याश्च सू.सङ्कलन-मुद्रणकालयोः षड्वर्षप्रमाणेऽन्तराले मुद्रितास्तेषां समुपवेशनं न नाम निरर्थकम् । यतस्तत्तद्ग्रन्थानां पुनर्मुद्रणादिप्रसङ्गेऽशुद्धिसंशोधनाय त्रुटित-स्खलितांशपरिपूर्तये चित् सन्देहापनोदादिप्रयोजनाय च स्फुटं वरिवृतीत्यावश्यकता। अत्र निर्दिष्टाश्च ये मन्या मुद्रिता ज्ञातास्तान् तत्रैव (मु.)संज्ञया समज्ञापयम् । सौकर्येण ग्रन्थनामज्ञानार्थं सर्वेषामपि मायः पदशतीप्रन्यानां वर्णानुपूर्या सूची निवख्य प्रान्ते न्यवेशयम्, तत्राप्यप्रसिद्धग्रन्थान् चिहाकितान् कृस्वा प्रादर्शयम् । तदनन्तरं तु जैन-जैनेतरग्रन्थकर्तृणां तद्ग्रन्थनामोपेतानि नामानि समुपावेशयम् । अवशिष्टानीतिवृत्तोपयुक्तानि विशिष्टनामानि षविभागेन प्रान्त समसूचयम् । अन्न सूचित्तान् विविधविषयकानप्रसिद्धान् अङ्गोपाङ्ग-मूलसूत्र-छछेदसूत्र-प्रकीर्णकादिजैनसिद्धा. तमन्यान् , जैनभ्याय-वादग्रन्थान् , बौद्ध-नैयायिक-वैशेषिक-साङ्ख्य-वेदान्तादिदर्शनग्रन्यान् , जैनद्रव्यानुयोग-गणितानुयोग-चरणकरणानुयोगोपदेश-धर्मकथानुयोगग्रन्थान् ,जैनेतरकथा-च. रितादि, व्याकरण-काव्य-च्छन्दोऽलकार-कोश-नाटक-प्रकीर्णग्रन्थान्, कल्प-मन-शकुनकाम-योग-स्तुति-स्तोत्रादिग्रन्थान्, गूर्जरभाषामन्यांश पृयकृत्य यथाविषयं विभज्य यावज्ज्ञातं तत्सद्विषयकं रचनासमयपौर्वापर्यमनतिक्रम्य च ग्रन्थकर्तृपरिचयेन साकं पृथक् पर्यचाययम् यथाप्रसनं पूर्वसूविपनजाः स्खलनाश्च तत्रैव समशोधयम् । विक्रमीयपञ्चदशशताब्या ऊनविंशशताब्दी यावजातानां लक्ष्मण-वैरिसिंह-याचिगदेव-देवकर्ण-जयतसिंह-लूणकर्ण-कल्याणाक्षयासिंह-मूल. राजसंज्ञकानां जेसलमेहपुरीयनृपाणां तत्पूर्वजानां च सत्तासमयादि परि० १,२,३,४,५,१३, १४,१५,१६,१७,१८,१९,२१,२२ लेखपरिपठनेन ज्ञास्यत इति नात्र पुनरुल्लिख्यते । जेसलमेरुदुर्गे गत्वा येनैतत् सूचिपत्रं परिश्रमेण सङ्कलितम् ,यशःशेषः स चीमनलालदलालमहाशयः, यैश्चैतस्कार्येऽनल्पां सहायतां वितीर्यंतत्पन्था निर्विघ्नं सुसरलो व्यधायि तेऽर्बुदगिरिप्रष्ठाधिकारिणः (जोधपुररेसिडेन्सी), भाण्डागारनियुक्ताश्च कथं नाम धन्यवादं नाहन्ति । कार्ये चास्मिन् प्रसङ्गोचितं साहाय्यं प्रदाय येनाहं प्रोत्साहितस्तस्यैतसंस्कृतपुस्तकालयाध्यक्षस्य (संस्कृतलाइब्रेरियन्) एम्. ए. पदप्रतिष्ठितस्य जी.के. श्रीगोन्देकरमहाशयस्य, के. पी. मोदी. बी. ए. एल. एल. बी. इत्यस्य, के. रजस्वामिप्रभृतेस्तथा खसङ्ग्रहपुस्तकानि प्रदर्शयित्रोः प्रवर्तककान्तिविजय-हंसविजयमुनीशयोश्चोपकृतिः स्मृतिपथात् कथमपि नापैति । सावधानतया प्रयत्नेन संशोध्य कृतेऽप्यत्युपयोगिन्यस्मिन् कर्तव्ये मम मतिमाग्यात् प्रमादादू वा जाता याः काश्चन स्खलना मतिमतां मतिमार्गारूढा भवेयुस्ताः प्रकृतिकृपालवः परिश्रमवेदिनः सहृदयाः 'न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्' इत्यभियुक्तोक्ति हृयवधार्य संशोधयिष्यन्ति मां च संसूचयिष्यन्तीत्याशास्तेता. ५-९-२२ । गान्धीत्युपाह्वो भगवान्दासतनुजः सेन्ट्रल लाइब्रेरी, लालचन्द्रः बड़ोदा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy