SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ र्गतमल्लिकवाहणपुराद् विद्वत्तापरिपूर्णा विज्ञप्तित्रिवेणि प्रहितवान्, यस्मा उपाध्यायपदं जिनमद्रसूरिणा व्यतारि (पृ. ५७)। सं. १४९५' वर्षे जयसागरोपाध्यायविहिता सन्देहदोलावलिवृ त्तिश्चैतेन व्यशोधि, स्वयं च जिनसंततिसंज्ञकं प्रकरणं प्राणायि । सं. १४८७ वर्षे जेसलमेरौ जन्मभाक्, सं. १५३० वर्षे तत्रैव स्वर्गामी जिनचन्द्रसूरिरस्य पट्टधर आसीत् (ख.), सं. १५१८ वर्षे यत्प्रतिष्ठितानां तीर्थपट्टिकानां लेखा भन्न प्रोद्धृताः (परि०१४,१५,१६,१७,१८)। सं.१५१९ वर्षे पुष्पमालावृत्ति(पृ. ५८)-वरित्रपञ्चकवृत्तिविधातुः साधुसोमगणिनो गुरुग्र्यासदीनसाहिसभायां वादिविजेता सिद्धान्तरुच्युपाध्यायोऽप्यस्य जिनभद्रसूरेः शिष्य आसीत् । भावप्रभाचार्यकीर्तिरनाचार्यादीनयं जिनभद्रसूरिः सूरिपदेऽस्थापयत् (ख.) । अष्टादश विद्वांसोऽस्य शिष्या आसन् । सं. १५३६ वर्षे जेसलमेरुदुर्गे देवकर्णराज्येऽष्टापदप्रासादप्रतिष्ठाकारको जिनचन्द्रसूरेः शिष्यः (परि०५) जिनसमुद्रसूरिर्जिनभद्रसूरेः प्रशिष्य आसीत् । परमहंससम्बोधचरित्रकारो नयरङ्गो जिनभद्रसूरेः सन्तानीयः (पृ. ५७)। महेश्वरकविः कविवरमण्डनचरिते, धनवश्च निजनिर्मिते नीतिशतके स्वसमकालीनजिनभद्रसूरेर्गुणानवर्णयत् । एवं पुस्तकलेखन-सङ्ग्रहार्थमुपदिश्य भाण्डागारं बिभ्रता जिनभद्रसूरिमहाशयेन, तदुपदेशमनुसृत्य निजद्रव्यव्ययेन पुस्तकानि लेखयित्वा संगृह्य च समर्पयित्रा धरणाऽदिगृहस्थगणेन च साहित्यसमुपासकानां समाजोऽतीवानुगृहीत एतद्विषये केन किं वक्तव्यम् ? । किन्तु ताहगलभ्यदुर्लभपुस्तकरवानामगारं साम्प्रतं कारागारमिव क्रियमाणं श्रुत्वा वा महापुरुषोद्गीर्णानामगणितगुणगणाकीर्णानां तेषां ग्रन्थानां दुर्दैववशात् कालक्रमेणासावधानतया जन्तुजातेन च १ विक्रमतः पश्चनवत्यधिकचतुर्दशशतेषु वर्षेषु । प्रथितेयं श्लोकैरिह पञ्चदश शतानि सार्धानि ॥ -सन्देहदोलावलीवृत्तिः २ जैमेन्द्रागमतत्त्ववेदिमिरमिप्रेतार्थकल्पद्वभिः । सद्भिः श्रीजिनभद्रसूरिमिरियं वृत्तिर्विशुद्धीकृता । -सन्देहदोलावलीवृत्तिः ३ गणहरसुहम्मवंसें कमेण जिणरायसूरिसीसेहिं । पयरणमिणं हियढं रइयं जिणभद्दसूरीहिं ॥ -जिनसप्ततिप्रकरणम् ४ श्रीखरतरगच्छेशश्रीमज्जिनभद्रसूरिशिष्याणाम् । जीरापल्लीपार्श्वप्रभुलब्धवरप्रसादानाम् ॥ श्रीग्यासदीनसाहेमहासभालब्धवादिविजयानाम् । श्रीसिद्धान्तरुचिमहोपाध्यायानां विनेयेन ॥ साधुसोमगणीशेनालेशेनार्थप्रबोधिनी । श्रीवीरचरिते चक्रे वृत्तिश्चित्तप्रमोदिनी ॥ चावी चरित्रपञ्चकवृत्तिर्विहिता नवैकतिथिवर्षे । हर्षेण महर्षिगणैः प्रवाच्यमाना चिरं जयतु ॥ -जिनवल्लभीयमहावीरचरितवृत्तिः ५ तस्य अष्टादश शिष्याः श्रीसिद्धान्तरुचिपाठक-श्रीकमलसंयमोपाध्यायादयो विद्वांसः । -पट्टावली ( विनयवल्लभीया) ६चिन्तामणिः सम्प्रति भक्तिभाजां तपस्यया त्रासितदेवनाथः। दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाजिनभद्रसूरिः ॥-धनदनीतिशतकम् (श्लो. ९४) ७ जयत्यतः श्रीजिनभद्रसूरिः श्रीमालवंशोदभवदत्तमानः । गम्भीरचारुश्रुतराजमानस्तीर्थाटनैः सन्ततपूतमूर्तिः ॥ -काव्यमनोहरम् (सर्ग ७, श्लो० ३५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy