________________
११
मत्र विलोक्यते (पृ. २३ ) इत्यतः सं. १४५८ वर्षीयं कुमारपालप्रतिबोधनामकं ताडपत्रपुस्तकमुयि तत्प्रस्तावकेन "प्रायस्ताडपत्रात्मकेषु पुस्तकसमूहेषु इदं पुस्तकमपश्चिमं प्रतिभात्यस्माकम् । यतः, एतस्मात् पुस्तकादर्वाचीनं नान्यत् पुस्तकमस्माकं दृष्टिपथमायातं कर्णगोचरीभूतं वा कुत्रापि जैनमन्थागारे ।” (कु० प्रस्ता० ) विहितोऽयमुलेखो निरस्तो भवति ।
जेसलमेरुस्थापना सं. १२१५ वर्षे जेसलनृपाज्जातेति राजस्थानादीतिवृत्तवेदिनां प्रायः सुविदितमेव । ततोऽपि प्राचीन लेखनकालानि प्रभूतानि पुस्तकान्यत्र प्रेक्ष्यन्ते । येषु लेखनस्थलं निर्दिष्टं विलोक्यते, तेषु क्वापि जेसलमेरुनाम नोपलभ्यते; नवरं जेसलमेरुदुर्गे रचितानि त्रीणि पुस्तकान्यत्रावलोक्यन्ते । तेषु प्रथमं तावत् पूर्णभद्रगणिना सं. १२८५ वर्षे रचितं धन्य- शालिभद्रचरितं तापत्रयम्, द्वितीयं गुणसमृद्धिमहत्तरया सं. १४०७ वर्षे विरचितमञ्जणासुन्दरी चरियम् तृतीयं तु पुण्यसागरोपाध्यायेन सं. १६४५ वर्षे विहिताया जम्बूद्वीपप्रज्ञप्तिवृत्तेः पुस्तकम् ।
1
खरतरगच्छीय जिनराजसूरिशिष्यस्य जिनभद्रसूरेरुपदेशात् स्तम्भतीर्थे परीक्षिगूजरपुत्र धरणादिसुश्रावकैः सं. १४८५ तमवर्षादारभ्य सं. १४९३ तमवर्षपर्यन्तं लेखितानां तालपत्र पुस्तकानामत्र भाण्डागारे प्राचुर्य वर्तते । तेषामन्तिमो लेखः प्रायः सदृशोऽतः क्वचित् क्वचिद् दलाdari संक्षिप्तो दृश्य (पृ. १८, १९, ३३, ३४, ३६) । सं. १४९७ वर्षे जिन भट्टसूरिणा प्रतिष्ठितस्य सम्भवजिनालयस्यैकस्मिन् प्रदेशेऽयं भाण्डागारो वर्तते । अनेन सूरिवर्येण सम्भवजिनालयप्रति - ष्ठायाः प्रागण हिलपाटकपुरादिषु विधिपक्ष ( खरतरगच्छ ) श्राद्धसङ्घेन ज्ञानरत्रकोशा अकार्यन्त(परि० ३) इत्यादिनाऽयमपि बृहद्भाण्डागारोऽस्यैव सूरिवर्यस्य सदुपदेशाद् वैक्रमवत्सर पञ्चदशशतकान्ते स्थापितः सम्भाव्यते । स्तम्भतीर्थाणहिलपाटका दिस्थानेषु लेखितानि सगृहीतानि व तालपत्रीया दिविविध पुस्तकानि तदानीं कुतोऽपि कारणवशात् तत्र नीतानि, पाश्चात्यैश्च तदनुयायिभिर्वृद्धिं नीतानीत्यनुमीयते । पुस्तकसङ्ग्रहस्य तत्र नयने मुख्यं कारणं तु म्लेच्छनृपाणामाक्रमणरूपं तर्क्यते; यतोऽत्याचारिभिर ने कैस्तैर्नृपापस दैरसकृदत्याहितमिति जनप्रसिद्धम् । जेसल - मेरुदुर्गस्तु बलवद्भिरपि म्लेच्छावनी पैर्दुर्ग्रह आसीत् (परि० ३ श्लो० ५ ) । जेसलमेरुस्थापनाया अनन्तरमचिरेणैव तत्र धनाढ्या जैनगृहस्था विशेषतश्च खरतरगच्छानुयायिनो न्यवसन्, यैस्तत्र जिनालयजिनपतिगुरु स्तूपाद्यपि चक्रे ( दशश्रावकचरितप्रशस्तिः; प्रा. लेखसङ्ग्रहः २ । ४४७ ) । जेसलमेरुपुरीयो लक्ष्मणनृपो जिनराजसूरिनिदेशात् सं. १४५९ वर्षे पार्श्वजिनालये जैनबिम्बस्थापयितुः सागरचन्द्रसूरेर्भक्त आसीत् (परि० १, श्लो० १४ - २१) । यदीये राज्यकाल एव सं. १४७३ वर्षे जिनवर्धनसूरिणा लक्ष्मणविहाराख्यस्य पार्श्वजिनालयस्य शान्तिजिनालयस्य च प्रतिटाकारि (परि० १-२ ) । अयं स एव जिनवर्धनसूरिये सागरचन्द्रसूरिः सं. १४६१ वर्षे जिनराजसूरे: स्वर्गमनानन्तरं जिनराजसूरिपट्टे स्थापितवान् (ख.) । सप्तपदार्थोटीका - वाग्भटालङ्कारtaraar च येन जिनवर्धनसूरिणा सं. १४६९ वर्षे प्रतिष्ठिता जिनराजसूरिमूर्तिरद्यापि देवकुलपाटके विद्यते । सागरचन्द्रसूरिर्व्यन्तरदर्श्यमानमस्य जिनवर्धनसूरेर्व्रतमालिन्यं विशङ्क्यामुं पश्चात् समुदायात् पृथकृत्य तत्स्थाने जिनभद्रसूरिं सं. १४७५ वर्षे प्रतिष्ठितवान् यत्प्रभृति जिनवर्धन सूरितः पिप्पलखरतरशाखा निर्गता (ख.) । जेसलमेरौ पञ्चायतप्रासादप्रतिकृत् (परि० ४) लक्ष्मणनृपस्य पुत्रो वैरिसिंहनृपश्छत्रधर - व्यम्बकदासौ च नृपती जिनभद्रसूरेभक्ता आसन् (परि० ३ ) । तदानीन्तनास्तत्रत्या जैनगृहस्था राजमान्या गच्छपतिजिनभद्रसूरिं प्रति श्रद्धाव न्तश्चाभूवन्नित्याद्यपि परिशिष्टलेखदर्शनेन स्फुटमवगम्यते इत्यतः पुस्तकानां संरक्षणे तत् स्थानं निरुपद्रवं निरूप्य विचक्षणोऽयं जिनभद्रसूरिः सारभूतं स्वपुस्तक कलापं गुर्जर धरायास्तत्र नीतवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org