________________
१०
जैन श्वेताम्बर कॉन्फरन्ससंज्ञक संस्थया १९०४-५ खिस्ताब्दे हीरालाल हंसराज इल्बाई जैनपण्डितं प्रेष्यास्य बृहभाण्डागारस्य शतद्वयाधिक सहस्त्रद्वयग्रन्थानां सूचिपत्रमकार्यत, यच्च तयैव संस्था प्रकाशितायां जैनग्रन्थावल्यामविश्वसनीयत्वेन नैकवारं निरदेशि; तदित एव कालान्तरेणोपलब्धम् । दलालेन ( ) एतादृकोष्ठके क्वचिदस्य क्रमाङ्को दर्शितो दृष्टिगोचरी भवति । मुम्बापुरीराजकीय निदेशात् प्रो. श्रीधरभाण्डारकरश्च तदैव ( १९०४ - ५ ख्रिस्ताब्दे ) जेसल - मेरौ गतवान् । तद्यात्रासम्बन्धि भाण्डागार दर्शनविषयकं च स्वानुभूतं तेन महाशयेन १९०४५, ५-६ खिस्तवर्षीये रिपोर्ट - नामक पुस्तके प्रकाशितम्, तदपराणि च प्रो. पिटर्सना दिकृता नि रिपोर्ट- क्यॉटलॉगसंज्ञकानि पुस्तकानि मयाऽस्मिन् कार्ये ग्रन्थपरिचयादावुपयोजितानि तानि तत्तत्स्थले संक्षिप्तसंज्ञया समसूच्यन्त; तत्सङ्केताभिज्ञानं स्वन्यन्त्राकारि ।
एतत्सूचिपत्र दर्शितानां भाण्डागाराणां स्थापन-संरक्षण-संवर्धनादिना विहितस्वपरोपकाराणां जैनाचार्य -मुनि- गृहस्थानामितिवृत्तप्रतिपादका जेसलमेरुदुर्गीयनृपाणां च सम्बद्धा दलालसङ्गृहीता ये केsपि शिलालेखा मयेह दृष्टास्ते चात्र परिशिष्टे समुपवेशिताः । १, २, ३, ४, ५, १३ परिशिष्टदर्शिता लेखा यद्यपि प्रो. श्रीधर भाण्डारकरेण स्वपुस्तके (रि०२, पृ० ९३-९७ ) दर्शिता - तथापि न ते परिपूर्णा यथास्थिताश्चेति सूक्ष्मदर्शिभिर्द्रक्ष्यते । १-२-३-५-६-१९-२०-२१-२२ परिशिष्टप्रदर्शिता लेखास्तु दलालेन यथाप्रतिच्छन्द ( Impression ) सङ्गृहीता आसन् । तेषामन्येषां च लेखानां प्रतिकृतिं सावधानतयाऽतिपरिश्रमेणाकार्षम्, यथायुक्तं चैताभ्यवेशयम्, एषामुपयुक्तता स्वग्रे प्रतिप्रसङ्गं प्रादर्शयम् ।
प्रो. श्रीधरभाण्डारकरेण स्वकीये पुस्तके (रि० २, पृ० १०) दशानां जेसलमेरुपुस्तक - सङ्ग्रहाणां नामावल्यदलेखि । दलालेन तु निम्न निर्दिष्टानां चतुर्णामेव जैनपुस्तकभाण्डागाराणां पुस्तकान्यत्र संसूचितानि; अन्येषां तु विशेष महत्त्वरहितत्वादथवा श्री. भाण्डारकरेण तद्विषय उल्लिखितत्वादुपेक्षा क्रियतेति सम्भाव्यते ।
(१) बृहदूभाण्डागारः ।
अस्यैवान प्राधान्यम्, प्राचीनपुस्तकगवेषिणः साक्षरा अस्यैव दर्शनार्थं समुत्कण्ठन्ते । दुर्गमोsपि स मरुदेशप्रदेश एतत्सौरभेणैवाकर्षति प्राज्ञमधुपान् । पूर्व डॉ. बूल्हरमहाशयेन १८७४ तमे ख्रिस्ताब्देऽस्य दर्शनं व्यधायि, तदा तेन ततो नवतिवर्ष प्राचीनाऽस्य द्वाविंशत्यधिकचतुःशतीपुस्तकानां संक्षिप्त टिप्पनिका व्यलोकि, सं. ११६० वर्षीयं तालपत्रपुस्तकं च प्राचीनतमत्वेन प्राबोधि (Gowsh पृ. ११७ ) । तदनन्तरं १९०४ - ५ ख्रिस्ताब्दे ही. हं. जैनपण्डितेन स्वसूचिपत्रे, तदवलम्ब्य श्री. भाण्डारकरेण च निजे पुस्तके (रि० २, पृ० १४ ) ततोऽपि प्राचीनानि सं. ९२४,१००५, ११२०, ११२७, ११३९, ११४४, ११५५ तमवर्षेषु लिखितानि तालपत्रपुस्तकानि सूचितानि । किन्त्वेषु केवलं सं. ११३९ वर्षीयं विहायाम्यदेकमपि विश्वस्तवर्षसख्याकं न प्रतिभाति । एतत्सूचिपत्रानुसारेण तु ३-४-२७ पृष्ठेषु दर्शितानि सं. १११ -, सं. सं. ११३९ वर्षेषु लिखितानि क्रमेण भगवतीसूत्र - तिलकमञ्जरी - कुवलयमालाssख्यानि पुस्तकानि प्राचीनतमानि प्रतिभान्ति । १५० (१) क्रमाङ्के दर्शितं सं. १११५ वर्षीय तु शङ्कितं भाति ।
११३०,
सर्वेष्वपि ताडपत्रेष्वर्वाचीनं सं. १४९३ वर्षे लिखितं सर्वसिद्धान्तविषमपदपर्यायसंज्ञकं पुस्तक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org