________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
43
43
OPENING
___4928. कालिकाहृदयस्तोत्र श्रीगणेशाय नमः । अस्य श्रीमहाकालीहृदयस्तोत्रमंत्रस्य श्री उग्रप्रचण्डभैरव ऋषिः, उष्णिक छन्दः, श्रीमहाकाली देवता, ककारकामराज बीजं, इच्छाक्रियाज्ञानानंदज्योतिरूपिणी शक्तिः, ॐकार कीलकं, मम सकलकामनासिद्धयर्थे सर्वशत्रुविनाशार्थे श्रीमहाकालीप्रीत्यर्थे जपे विनियोगः ।
ॐ अंगुष्ठाभ्यां नमः । ॐ ऐं तर्जनीभ्यां नमः । ॐ ह्रीं मध्यमाभ्यां नमः। ॐ क्री कनिष्ठिकाभ्यां नमः । ॐ हु करतलकरपृष्ठाभ्यां नमः। ॐ अं हृदयाय नमः। ॐ ऐं शिरसे स्वाहा । ॐ ह्रीं शिखायै वषट् । ॐ हुं अस्त्राय फट-अथ ध्यानम्
ॐ ध्यायेत् कालिकां बहुरूपिणीं द्रष्ट्राकराली घोररूपां, लोलजिह्वां करालवदनां शत्रुविनाशकारिणीम् । सकलजनवशीकारिणीं शुष्कमासां महिषासुरविदारिणी,
अजनमानववशीकारिणी कालचक्रनिवारिणीम् ।। ब्राह्मणक्षत्रियवश्यशूद्राः सर्वे मोहयति इत्यादि
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् । अक्षयो जायते सोऽपि न दुःखांतं न विगच्छति ।।
CLOSING
COLOPHON
OPENING
राजद्वारे च घोरे च परदेशे प्रवेशनम् ।
महाकाली प्रभावेन सर्वरक्षाकरं तणाम् ॥ इति श्रीरुद्रयामले उद्यानतंत्र मौरिकल्पे भैरवी-भैरव-संवादे श्रीकालीहृदयस्तोत्र सम्र्पणम् ।
श्रीमहाकाल्यर्पणमस्तु ॥श्री॥
4931. किङ्कोरिणस्तोत्रम् श्री गणेशाय नमः ॥ अथ किङ्किणीस्तव:किं किं दु:खं सकलजननि क्षीयते न स्मृतायां, का का कोत्तिः कुलकमलिनि प्राप्यते नाचितायाम् । किं किं सौख्यं सुरवरनुते प्राप्यते नार्थिताया, कं कं योग त्वयि वितनुते चित्तमालम्बितायाम् ॥१॥ स्मता भवभयध्वंसि पूजितासि शुभंकरि । स्तुता त्वं वांछितं देवि ददासि करुणापरे ॥२॥ प्रज्ञानाद् वा प्रमादाद् वा वैकल्यात् साधनं विना । यन्न्यूनमतिरिक्तं वा तत् सर्वं क्षतुमर्हसि ॥१॥ द्रव्यहीनं क्रियाहीनं श्रद्धामंत्रविवर्जितम् । हत् सर्व कृपया देव क्षमस्व त्वं दयानिधे ।।२।।
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org