________________
22
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
श्रीगोकुलेशरसिकेशवजेश्वराय,
तस्मी नमोऽस्तु मकरध्वजमोहनाय ।।६।। राधावराय मनमोहनराधिकाय,
मुरलीधराय वजस्त्रीजीजन वल्लभाय । पुरुषोत्तमाय गोवर्द्धननायकाय,
तस्मो नमोऽस्तु मकरध्वजमोहनाय ॥७॥ वृन्दावनेन्दुकुलवल्लभवल्लभाय,
रासेश्वराय व्रजभूषणनागराय । श्रीकृष्णचन्द्रव्रज-इन्द्र-रतिप्रियाय,
तस्मो नमोऽस्तु मकरध्वजमोहनाय ॥८॥ राधेशशेषशिवब्रह्मसुरेश्वराय,
कामेशभक्तद्विजधेनुस रक्षकाय । प्राणेश्वराय मम स्या (श्या)ममनोहराय,
तस्मै नमोऽस्तु मकरध्वजमोहनाय ।।१।। यशोदया पुत्रबलानुजाय, जाराधिपः प्रीतमगोपिकाय । वयःकिशोराय महाबलाय, नमोऽस्त्वहं वै शरणं गताय ॥१०॥
स्वरूपसिंघेन यत्प्रोक्तं अनङ्गमोहनाष्टकम् ।
यः पठेत् प्रीतिसंयुक्तं प्रेमाभक्ति लभेद् ध्रुवम् ॥११॥ इति श्रीस्वरूपसिंघकृतश्रीमदनमोहनाष्टकं संपूर्णम् ॥
. OPENING (ct.)
5526 मनीषपाञ्चकम् 'मधुमञ्जरी'-व्याख्यान्वितम्
॥ॐ श्रीमद्गणेशाय नमः ।। ॐ श्रीमद्य तीन्द्रमानम्य जगन्नाथमुनि गुहम् ।
मनीषापञ्चकव्याख्या तन्यते मधुमञ्जरी ॥१॥ तत्रादौ कथा निरूप्यते
कदाचिच्छङ्कराचार्यः काशीम्प्रति पुरी ययो। तस्य ज्ञानपरीक्षार्थकश्चिद्दे वः समागतः ॥२॥ चाण्डालरूपिरणं तं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् ।
तथोक्तवन्तमाचार्य स देवः पुनरब्रवीत् ॥३॥ तथाहि अन्नमयेति-अस्यायमर्थ:- अद्य ते यज्जनस्तदन्नं अनुभक्षन्ति च भूतानि यदन्न अद् भक्षण इति धातोरनशब्दस्योत्पन्नत्वात् ।
'प्रद्य तेति च भूतानि तस्मादन्न तदुच्यत'
इति श्रुतेश्च तदन्नमयपर: तत्प्रधानस्तद्विकारो वा स्थूलदेहोऽन्नमय इत्युच्यते । तस्म दन्नमयाच्चाण्डालत्वजातिविशिष्टाद विप्रत्वजातिविशिष्टाद्वा अन्नमयमुक्तलक्षणं स्थूल देहमन्यत रजातिविशिष्टं दूरीकत हरतः परिहृत्य गन्तुं हे द्विजवर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org