SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur, 63 CLOSING : COLOPHON: Post Colophonic श्रुतकेवलिनः सर्वे विजयन्तां तमश्छिदः । येषां पुरो विभान्ति स्म खद्योता इव तीथिकाः ।। जरेत्यादि-जरा वयोहानिलक्षणा मरणं प्राणत्यागरूपं क्लेशाशारीर्योमानस्यश्वा बाधा दोषा रागादय: तं रहितस्य पादान नसौख्योत्पादकान् विनयप्रणतो वन्दे नमस्करोमि ॥छ। इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां विंशतितमं प्राभूतं समाप्त ॥छ।। श्री।। वन्दे यथास्थिताशेषपदार्थप्रतिभासकम् । नित्योदित तमोऽस्पृश्यं जैनसिद्धान्तभास्करम् ।।१।। विजयन्तां गुणगुरवो गुरवो जिनतीर्थभासनकपराः। यद्वचनगुणादहमपि जातो लेगेन पटुबुद्धिः ।।२।। सूर्यप्रज्ञप्तिमिमामतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ॥३॥ छ।। इति श्रीमलयगिरिविरचिता सूर्यप्रज्ञप्तिटीका समाप्ता ।।छ।।श्री॥छ।। यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्ध मशुद्ध वा मम दोषो न दीयते ॥१॥छ।। सर्व संख्या ग्रंथानं ६१२५ ।।श्रीश्रमरणसंघस्य । श्रीश्रीमालज्ञाते मुकुटः सकलार्थिकामुकुटः । प्रकटयशा भटमंत्री वट इव शाखाभिरामोऽभूत् ॥१॥ जिनधर्मकर्मकर्मठमतिरतिशयशालिशीलदुर्ललिता। तद्दयिताभरमादेः परमादेवीव गुणनिवहैः ॥२॥ अनया तनया विनयावजितघनसज्जनास्त्रयो जाताः । नारद प्राद्यस्तेषां वारिद इव तापनिर्वापी ।।३।। तदनु पहिराजहीरानामानौ विनयचारुवातुय्यो । देमतिवलादेवीहरादेव्यश्च तत्कान्ताः ॥४॥ घररामदासरंगाघूसासमराभिधास्तेषाम् । इत्यादि सारपरिवारपरिवृता सा च भरमादेः ।।५।। श्रीसूरसुन्दरगुरुप्रवरोपदेशात्, प्रारम्भिते सुकृतपुङ्गवकेलनाम्ना। कोशे चितः सपदि लेखयति स्म सूर्य प्रज्ञप्तिवृत्तिमसमां भतिथिप्रमे १४२८ ऽब्दे ॥६॥ श्रीमद्धृहत्तपागणनाथश्रीसूरसुन्दरगुरूणाम् । शिष्योऽलीलिखदेतां प्रतिमसमां समयमारिणक्यः ॥७॥छ।।श्री।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy