________________
52
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix)
विवेचनम् (६४) सर्वात्मभावनिरूपणम् (६५) स्वमार्गीय भक्ति विध्यविवेकः (६६) स्वमार्गमर्यादानिरूपणम् (६७) मधुराकतात्पर्यम् (६८) स्वमार्गशरणद्वयनिर्णयः (६६) प्रभुप्राकट्यहेतुनिर्णय: (७०) सर्वाभोग्यसुधाधिक्यनिरूपणम् (७१) प्रभोर्वयोनिरूपणम् (७२) अष्टाक्षरशरणमन्त्रपूर्वनिरासा (७३) नृसिंहवामनज. यन्त्युत्सववंशिष्ट्यनिरूपणम् (७४) भक्तिमार्गे पुष्टिमार्गत्वनिश्चयः (७५) भक्तानां दुःसङ्गविज्ञानप्रकारनिरूपणम् (७६) वल्लभपञ्चाक्षरस्तोत्रम् (७७) मर्यादातः पुष्टि निरूपणम् (७८) स्वस्वामिनिरूपणाष्टकम् (७६) सर्वोत्तमनामहेतुनिरूपणम् (८०) कुलप्रवेशलीलावर्णनम् (८१) कामदोषविवरणम् (८२) राधिकाप्रारणनाथस्य निशीथलीला (८३) हरिरायाणां कृतिः (दैन्यप्रकाशकवल्लभाचार्यसंश्रयः) (८४) पुष्टिमार्गलक्षणम् (८५) सिद्धान्तसंक्षेपनिरूपणम् (८६) शिक्षाभावना (८७) वल्लभरचितमहावाक्यशरणमन्त्रव्याख्यानम् (८८) पुष्टिमार्गीयसंवत्सरोत्सवाः ।
OPENING
2548. वातूलनाथोयत्रयोदशकथारूपसत्रवृत्तिः
|| ॐ नमो गुरवे शिवायों नमः ॥ ॐ संघट्टघट्टनबलोदितनिर्विकार
शून्यातिशून्यपदमव्ययबोधसारम् । सर्वत्र खेचरदृशा प्रविराजते य
नौमि साहसवरं गुरुवक्त्रगम्यम् ।। सर्वोल्लङ्घनवृत्त्येह निनिकेतोऽक्रमक्रमः। कोऽप्यनुत्तरचिद्वयोमस्वभावो जयतादजः ।। श्रीमद्वातूलनायस्य हृदयाम्भोधिसम्भवम् । पूज्यपूजकपूजाभिः प्रोज्झित यन्नमामि तत् ।
मध्यसंस्थोऽपि सर्वदा। महाव्योमसमाविकृस्तिष्ठाम्यस्मि निराविलः । तमपूर्वमनावेशमस्पर्शमनिकेतनम् । संविद्विकल्पसंकल्पघट्टनं नौम्यनुतरम् ।। योगिनीवक्त्रसंभूतसूत्राणां वृत्तिरुत्तमा ।
केनापि क्रियते सम्यक् परतत्त्वोपवृहिता ।। इह किल षड्दर्शनचतुराम्नायादिमेलापपर्यन्तसमस्तदर्शनोत्तीर्णमकथ्यमपि श्रीमद्वातूलनाथस्य पीठेश्वर्य उच्छुष्मपादौघमुक्त्वा तदनुपरमरहस्योपहितत्रयोदशकथासाक्षात्कारदशा क्रमाक्रमास्तिनास्तितथ्यातथ्य भेदाभेदसविकल्पनिर्विकल्पभवनिर्माणकलङ्कोज्झितं किमप्यनवकाशं परं तत्वं सूत्रमुखेनादेशयन्ति यत्रेदमादिसूत्रम् -
_ 'महासा हसवृत्त्या स्वरूपलाभ: ।।१॥' त्रयोदशकथासाक्षात्कारोपदेशभङ्गयाऽनुत्तरपद....द्वयतया कस्यचिदवधूतस्य पीठ
CLOSING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org