________________
___ 34
34
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
चकोरचक्रवाकहंसवृन्दकूलरञ्जिता,
मृणालखण्डधूतवायुपूतसत्वसञ्जिता। शवाङ्गपूतिगन्धहारिवारिराशिस्यन्दिनी,
___ जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ॥५॥ सरस्वतीप्रपूरसूरकन्यकाम्बुसङ्गिनी,
___मुनीन्द्रवृन्दवन्दिता त्रिवेरिणका तरङ्गिणी । मुमुक्षुसङ्घसेविता सुतीर्थबुद्धिवन्दिता,
___ जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ।।६॥ सुराङ्गनाङ्गलेपगन्धमत्तभृङ्गमालिनी,
___ नभस्वदीरिताम्बुवाधिहस्तलास्यशालिनी । तटप्रवासिजन्तुशुद्धबुद्धिबोधनन्दिनी,
जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ॥७॥ रसालवेतसीतमालसालकुञ्जपावनी,
मयूरकोकिलाप्रमत्ततीरशोभितावनी। अनेकदेशकूलवासिकालभीतिदंदिनी,
जगत्रिदोषतस्तु नः पुनातु जह, नुनन्दिनी ।।८।। नरेन्द्रपुत्रमुक्तिदा सुरेन्द्रलोकसाधनं,
स्वसेवकाय दातृका सुतं पवित्रिका धनम् । नदीशपूरसङ्गमेन विश्वतापकन्दिनी,
जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ॥६॥ तव प्रवाहसञ्चलविलोलवीचिदोलितं,
सुमीनकङ्ककर्षितं शृगालकाकभक्षितम् । नरं विलोक्य सादरं विकुण्ठलोकगामिनं,
वदन्ति देवि देवता भृशं त्वदीयविस्मयम् ॥१०॥ विधेहि देवि मे मतिं त्वदीयवारिसेवने,
शुभेतरे कदाचन प्रतीतिरस्तु मा बुधे । तवाम्बुपानमादरात् प्रकुर्वतः प्रदक्षिणं,
त्ददीयवारसेचिमीक्षतः प्रयातु देवि मे दिनम् ।।११।। मुरारिपादसेविना नारायणेन सूरिणा,
सुगङ्गकाष्टकं शुभं कृतं गुरुप्रभावतः । नरः पठेदिदं सदा शुचिः प्रभातकालतः,
प्रयाति वाञ्छितं फलं स जाह नवीप्रसादतः ।।१२।। इति श्रीनारायणभट्टविरचितं श्रीगङ्गास्तोत्रं सम्पूर्णम् । शुभम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org