SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ [ ८७ ] सच्चिदानन्दनायांघ्रि-सरोजद्वयषट्पदः । श्रीविद्यानन्दनाथोऽह वीतरागो विविक्तधोः ।। ५ ।। विचरन् मेदिनीमेनां विद्वद्भिविमलात्मभिः । प्रयागे प्राथितः प्रीत्यै तेषां लोकहिताय च ।। ६ ।। पञ्चस्रोतपथोऽगाधं तन्मणिमन्त्रसङ्कलम् । समस्तयोगिनीचक्र-प्रवाललतिकोज्ज्वलम् ॥ ७ ॥ नित्यामण्डलपूर्णेन्दु-ज्योत्स्नाजालविजृम्भितम् । नवचक्रमहाद्वीपं न्यासजालतरङ्गकम् ।। ८ ।। श्रीनाथपादुकापोतं चतुर्वर्गफलामृतम् । प्रकाशयामि सौभाग्यरत्नाकरमिति स्फुटम् ।। ६ ॥ श्रीविद्यायाः सभेदाया नित्यनैमित्तिकार्चनम् । काम्यार्चनं च दीक्षाङ्गभूतं प्राच्यादिसाधनम् ॥ १० ॥ दीक्षाभेदः पुरश्चर्या तत्कर्मनियमादिकम् । काम्यहोमविधिश्चैव सौम्यक्रूरविभेदतः ।। ११ ।। समस्तव्यस्तविद्याया यद्यत्काम्यफलोदयः । सदाचारादिकं चैव लिख्यते रत्नवारिधौ ।। १२ ।। इति गदितमशेष पुरब्रह्मविद्या यजनजपतानां शास्त्रदृष्टं विधानम् । गुरुचरणसरोजाराधनाकाम्यमेतत् , पशुषु परमगोप्या भाविता सिद्धसङ्घः ॥ १॥ श्रीविद्यातत्त्ववेत्ता जगति करुणयो पातका यः शिवो यः , स श्रीमान् सुन्दराख्यः क्षितिसुरतिलक: सच्चिदानन्दनाथः । तच्छिष्यः श्रीनिवासो द्रविडविषयजस्तत्प्रसादाप्ततत्त्वः , श्रीविद्यानन्दनाथः परशिववचसा भाववेत्ता विधाय ।। २ ।। सौभाग्यरत्नाकरनामधेयं सौभाग्यविद्यादिसुमन्त्ररत्नः । अलङ्कृतं ग्रन्थतरं तरंङ्गः सुशोभितं शैवसुतत्वसंख्यैः ।। ३ ।। अध्यापयन्नात्मविदात्मशिष्यानभ्यथितोऽन्यर पि तानदुष्टान् । क्षेत्रे विमुक्ते शिवराजधान्यामास्ते निजाराध्यनिदेशवर्ती ।। ४ ।। यथा पित्रोच्दे भूयादाशीलपरिभाषितम् । बालस्य महतामस्तु ममापि भरिणतं तथा ॥ ५ ॥ त्यक्त्वा कुलं कुलवधूः पुरमध्यवीथ्यां गत्वा कुलं मधु निपीय यथेप्सितं या। मत्ता परं पुरुषमेत्य तदीयसङ्गात् , तुष्टा पुन: स्वकुलमेति पुनातु सा नः ॥ ६ ॥ CLOSING: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy