SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयक्षान्तिसूरीणां हस्तपतिसंग्रहे अमरविमलाश्चात्र तच्छिष्याः पाठका मुदा । तच्छिष्याश्च विराजन्तेऽमृतसुन्दरनामानः ॥६॥ वाचका राजमान्याश्च वैद्यशास्त्र विशारदाः । तच्छिष्यमहिमाहेमः सतां मान्यो महासुधीः ॥७॥ तद्भ्राता जय कीर्तिश्च तेनेदं चरितं कृतम् । कान्तिरत्नसहायेन लिखितं शोधितं मुदा ॥८॥ श्रीमद्राजाधिराजस्य मूलराजस्य भूपतेः ।। राज्ये प्रतापसंयुक्त पुस्तिकेयं कृता मया ॥९॥ श्रीचिन्तामणिपार्श्वेशः रक्षां करोतु नित्यशः । जेसलमेरुमहाद्रङ्गे चतुर्मासी कृता वरा ॥१०॥ जीवराजेन रचितं श्रीपालचरितं शुभम् । कुशलेनाशु लिखितं श्रीसद्गुरुप्रसादतः ॥११॥ इति श्रीश्रीपालचरित्रे गद्यबन्धे चतुर्थः प्रस्तावः परिमितः । सं० १९२१ ना मिति वैशाखसुदि १० आदित्यवारे ॥ [790] अन्तः-श्रीमद्वीरजगत्प्रभुहितकरः सच्छासनाधीश्वरो लोकालोकविलोकनैकनिपुणः शश्वज्जगच्छङ्करः । जित्वा कर्मरिपून् निवेश्य चरमं सद्धर्मराज्यं जगत् त्रय्या चारुमहोदयाद्भुतपदानन्दामृतं संप्रति ॥१॥ श्रीमत्सुधर्मप्रमुखा गणेशाः सवादशाङ्गीरचनाऽतिदक्षाः । वृन्दारकैर्वन्दितपादपद्माः अत्राजिषुः सिद्धिपदं विपद्माः ॥२॥ श्रीउद्द्योतनसूरयो युगवरास्तत्पादपद्मालया ___जाताः श्रीवरवर्धमानमुनिपास्तपट्ट भूषाभृतः । संभूता हि जिनादिमेश्वरतपोद्रव्याधिपा भूतले तत्पजिनचन्द्रसूरिगुरवो संजज्ञिरे सत्तमाः ॥३॥ तत्पट्टे करुणाकरा यतिवरा सूरीश्वराधीश्वराः श्रीमच्छीअभयादिदेवगणपाश्चक्रेश्वरीशासनात् । नन्दाङ्गीजलजालियोधनमहाप्रोद्यत्प्रतापारुणाः सञ्जाता भुवि विश्ववल्लभतमास्तच्छिण्यमुख्यास्ततः ।।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy