SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। श्रीमच्छीजिनलाभसूरिगणभृत् तुल्यप्रतापोधुरे । कान्ते श्रीजिनचन्द्रसूरिमुनिपे धर्मेशतां बिभ्रति ॥५॥ सूरिश्रीजिनभक्तिभक्तिनिरताः श्रीप्रीतितः सागरा स्तच्छिष्यामृतधर्मवाचकवराः सन्ति स्वधर्मादराः । तत्पादाम्बुजरेणुराप्तवचनस्मर्ता विपश्चित् क्षमा कल्या गः कृतवान्मुदे सुमनसामेतच्चरित्रं स्फुटम् ॥६॥ उत्सूत्रमिह यदुक्तं मोहात् तदुरितमस्तु मे मिथ्या । यदवापि पुण्यमस्मात् तुष्यतु सकलोऽपि तेन जनः ॥७॥ इति परमपवित्रं श्रीयशोधरनरेन्द्र चरित्रम् ॥ [783] अन्तः-जिनातिशय-यक्षाख्य(१३३ ४)वत्सरे विहिता कथा । ग्रन्थेन द्वादशशती चतुर्विंशति(१२२४)संयुता ॥ श्रीमालज्ञातीयहरदे[व]भार्या यामीनाम्न्या स्वश्रेयसे श्रीशालिभद्रचरित्रं श्रीसोमसुन्दरसूरीणामुपदेशेन लेखितम् ॥ [ पश्चात्कालीनोऽयमुल्लेखः-] संविग्नेनान्तिषदा तपगणपतिविजयसेनसूरीणाम् । श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥ 786] अन्तः-संवत् सिद्धि-रसाष्टैक(१८६८)प्रमिते मार्गशीर्षके । मासे हि कृष्णपक्षे च दशम्यां चरितं कृतम् ॥१॥ श्रीजिनहर्षसूरीणां राज्ये रम्ये प्रवर्तते । प्राकृतात् संस्कृत रम्यं कृतं च जयकीर्तिना ॥२॥ श्रीमत्खरतरगच्छे कीर्तिरत्नाश्च सूरयः । तच्छाखायां सुजाता हि पाठकाः सुखलाभकाः ॥३॥ तेषां शिष्याः महादक्षा जिनहंससुवाचकाः । तेषां शिष्याः सदाचाराः श्रीमन्माणिकयमूर्तयः ॥४॥ महोपाध्यायपदवीधारकाश्च जितेन्द्रियाः । तच्छिष्याः भावहर्षाश्च महाविद्याधरा वराः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy