SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। तत्पट्टाम्बरसोमसोमतिलकाचार्या अजायन् ततः तत्पट्टोद्योतकदेवसुन्दरगुरुश्रेष्ठा विशिष्टा गुणैः ॥२॥ श्रीसोमसुन्दरगुरुप्रवरास्तु तेषां पट्टेऽभवन् भुवि गुणैर्विदिताः स्वकीयैः । ते सूरयः सुविहिता मुनिसुन्दराख्याः सूरीन्द्रसूरिजयचन्द्रमुख्यास्तु पञ्च ॥३॥ श्रीरत्नशेखराद्या श्रीमुनिसुन्दरगुरोस्तु संताने । अभवन् सूरिप्रवरा नैके विद्यावदातधियः ॥४॥ श्रीजयचन्द्रगुरूणां कृष्णब्राह्मीतिलब्धबिरुदानाम् । श्रीसोमजयाचार्या अभवन् शिष्येषु मुख्यतमाः ॥५॥ तेषां नैकेऽभूवन् शिष्याः श्रीइन्द्रनन्दिसूरीन्द्राः । श्रीअमरनन्दिवाचकवरास्तु पं० नन्दि-सहजाख्याः ॥६॥ वरराजसोमपण्डित-वादिवरानन्द-सहजनामानौ । पण्डितवरेन्द्र सारा इति नैकपण्डितास्तेषाम् ॥७॥ श्रीमत्सोमजयाभिधानगुरुणा दत्तव्रते [च] क्रमात् श्रीमत्सूरिवरेन्द्रनन्दिसुगुरौ संप्राप्तविद्येन च । संसारात् स्वयमिन्द्रसारगुरुणा निस्तारितेनार्णवात् ___ग्रन्थोऽयं विहितः परोपकृतये सिद्धान्तसारेण तु ॥८॥ विक्रमतः सप्तति-तिथिमित(१५७०)वर्षे विरचितः ग्रन्थः । .... .... श्रीदर्शनरत्नाकराख्योऽयम् (१) ॥९॥ अङ्गोपाङ्ग-छेदोत्तराध्ययनसूत्र-पिण्डनियुक्तिः आवश्यकनियुक्तिप्रमुखान्युपजीव्यसूत्राणि ॥१०॥ श्रीहेमसूरिरचिताऽऽदिमजिनचरितानुसारतोऽप्रन्थि । ते प्रथयन्त्वविरुद्धं तच्छोध्यं बुधवरैः सुधिया ॥११॥ इति श्रीदर्शनरत्नाकरग्रन्थोऽयं समाप्तोऽस्तु संपूर्णम् । संवत् १९६१ वर्षे मृगसिर कृष्णपक्षे चतुर्थ्यां शनिवासरे लिपीचके र० मे० भगवानसिंहेन । [587] अन्तः-समाप्तमष्टमपरिच्छेदविवरणम् । तत्समाप्तौ च रत्नाकरावतारिकापञ्जिका सिद्धि सौधमध्यमध्यासामास ॥ श्रीस्थूलभद्रवंशे हर्षपुरीये क्रियानिधौ गच्छे । देव्या चक्रेश्वर्या दत्तवरः षष्ठपारणकी ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy