________________
प्रशस्त्यादिसंग्रहः।
[६५ [536] वा० आदिः-प्रणिपत्य पार्श्वदेवं स्मृत्वा स्वगुरुं गिरं च भागवतीम् ।
सप्ततिकाया व्याख्यां कुर्वेऽहं बालबोधार्थम् ॥१॥ मत्तोऽपि मन्दमतयो न जानते ये हि चूर्णिटीकोक्तिः । तबोधानुग्रहधीविषयो यन्नः शुभाय तत् ॥२॥ केचित् परात्मसंविधिविकलाकलाः कलौ खलायन्ते । तेभ्योऽपि न काऽपि भीतिः सन्तः सन्तोषभाजश्चेत् ॥३॥ श्रीहर्षसोमविबुधान् सुयशस्सोमाभिधानान् कविश्रेष्ठान् ।
नत्वा सप्ततिकायाः लिखामि जनभाषया व्याख्याम् ॥४॥ बा० अन्तः-श्रीचन्द्रगच्छाम्बरपूर्णचन्द्रो मेधाविधिष्ण्योपगतो वितन्द्रः ।
प्राप्तप्रतिष्ठो यवनेशसत्कः सूरीश्वरोऽभूद् विजयादिसेनः ॥१॥ तत्पट्टपूर्वाचलचित्रभानुः कुपक्षतार्होल्बणचित्रभानुः । महातपाख्यातिधरो धरायां जीयात् स सूरिविजयादिदेवः ॥२॥ तत्पट्टनाट्यप्रियमौलिनिष्ठोऽभूत् सूरिराजा विजयादिसिंहः । यद्गोभरस्पृक्प्रशमामृतोपान् दुदुश्च तच्चित्तविधूपलोमे ॥३॥ तदीयगच्छाम्बुजराजहंसः सद्विज्ञसंविज्ञजनावतंसः । विध्वस्तदोषः कृतरोषशोषोऽभवद् यशस्सोमगुरुयशस्वी ॥४॥ किं वर्ण्यतेऽन्यद् गुणगौरवं गिराग्भोधेरमोघाचरणस्य तस्य । यदीयविद्याधनतर्जितोत्तरा किं सेवते देवगुरुर्न नाकम् ? ॥५॥ जज्ञे यशस्तद्गुरुहस्तसिद्धियोगाज्जडोऽपीदृशशास्त्रवेत्ता । किं योगिखाणिरिति चूर्णियोगाल्लोहं च लोहोत्तमतां दधाति ? ॥६॥ संवद्विपूर्णार्णव-चन्द्र(१७१५)वर्षे लिलेख वृत्ति जनभाषयेमाम् । चतुःसहस्रं किल ग्रन्थसंख्या लोकस्य मानं कथितं च षष्टिः ॥७॥
इति श्रीसप्ततिकाकर्मग्रन्थबालावबोधः समाप्तः । ग्रन्थसंख्या ४५६१ समाप्तौ च समाप्तोऽयं कर्मग्रन्थाभिधानो ग्रन्थः ।
संवत् १८४१ वर्षे शाके १७०६ प्रवर्त्तमाने मासोत्तममासे चैत्रमासे कृष्णपक्षे षष्ठीतिथौ रविवासरे श्रीपत्तननगरे श्रीपञ्चासरजिनराजप्रासादे श्रेयो भवतु ॥
प्रशस्ति ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org