________________
१६ ]
आ० श्रीविजयदेवसूरीणां हस्तप्रति संग्रहे
विशालेऽस्ति पुरे तस्मिन्नोशवंशोऽतिविश्रुतः । तस्मिन् वंशे पुरा ह्यासीत् पारेखान्वयभूषणः || २ || रामचन्द्रो धनो धर्मी कार्याकार्यविवेकभृत् । अस्ति चीमनलालाहृस्तदङ्गजपवित्रधीः ||२|| परसनेति नाम्नाऽभूत् तद्भार्यो धर्मनिश्चला | तेनायं लेखयांचक्रे स्वपत्नी पुण्यवृद्धये ॥४॥ स्वच्छे बृहत्तपोगच्छे विजयानन्दसूरयः । प्रसिद्धा भुवनेऽभुवन् शिष्यौघसेवितक्रमाः || ५ | तेषां पट्टे किलेदानीं वर्तते गच्छनायकाः । विजयकमलाचार्याः शीलालङ्कृतविग्रहाः ॥ ६ ॥ द्वि- रसाङ्क भूमितेऽब्दे श्रावणमासेऽसितदले रम्ये । भूपतिशेरमहम्मदखानेत्याख्यस्य शुभराज्ये ||७|| विजयानन्दसूरीणां विनयिविनेयस्य नित्यपठनकृते । ग्रन्थोऽयं तेन मुदा समर्पितः कान्तिविजयस्य ||८||
लि० भावसार प्राणजीवन ईश्वरदास, मु. बोरसद, संवत् १९६४ ना वर्षे चैत्रमासे शुक्लपक्षे तिथौ अष्टमी ने गुरुवारे समाप्तः || शुभं भवतु ॥ [365]
बृ० आदि: – ज्योतिः परं योगिभिरप्यगम्यं परानपेक्षं भुवनप्रकाशि । यदिन्द्रियाणां विषयव्यतीतं सदा चिदानन्दमहं महेयम् ॥ ९ ॥ जगत्प्रदीपस्य वृषध्वजस्य तमोपहाः पान्तु तनुत्विषो वः । जटामिषाद् यस्य शिरः प्रदेशे विलोक्यते कज्जलमालिकेव ||२|| कथमपि ललनानां रागिणीनां न रागः
सकलरजनिमन्तस्तापितेऽपि प्रकामम् ।
Jain Education International
लगति मनसि वस्त्रे निकषाये स्मरस्य
दिशतु भविकलोके सश्रियं वर्धमानम् || ३ || नरा महावीरमुपासते ये सदैव ते ब्रह्म पराप्नुवन्ति । इत्यस्य बाह्यं परिहृत्य मुख्यमर्थं भजन्तं नमतेन्द्रभूतिम् ||४|| प्रसूनवद् यस्य निदेशलेशं शिरःसु दध्रे सुमनः समूहम् । स वः श्रियं श्रीगणभृत् सुधर्मा क्रियात् सुधर्माधिपतेः सधर्मा ||५||
For Private & Personal Use Only
www.jainelibrary.org