________________
प्रशस्त्यादिसंग्रहः । वृ० अन्तः-पाटणमध्ये लिखितं माहमासे लिखितं संपूर्णम् । नरसमुद्रपाटणस्थाने शीतलनाथप्रसादात् नारिंगपुरपार्श्वनाथसांनिध्यात् ।
श्रीपार्श्वचन्द्रसूरिपट्टालङ्कारश्रीसमरचन्द्रसूरिपट्टोद्योतकारकः श्रीराजचन्द्रसूरिविजयमाने ऋषिश्रीश्रमणस्य शिष्यवाचकमेघराजेन श्रीराजप्रश्नीयसूत्रस्य स्तबकार्थ कृतम् । अस्यैव टीकाग्रन्थान्तरं विलोक्य लिखितमिदम् । यदज्ञानभावादशुद्धं लिखितं तन्मे मिथ्या दुष्कृतम् । विशोधनीयं च धीधनैरिति । टवार्थस्य ग्रन्थमानम् ३२८१ । सूत्रवृत्तिः-सार्धपञ्चसहस्राणि प्रत्येकं श्लोकसंख्यया । राजप्रश्नीयसूत्राथें ग्रन्थमानं विनिर्मितम् ॥
[55] अन्तः-ग्रन्थाग्रम् १६०००। संवत् १५९६ (१) वर्षे माघसी(र्गशीर्षवदित्रयोदशीबुधवारलिखितम् । प्रज्ञापनाटीका परिपूर्णा । अणहिल्लपुरपट्टणवास्तव्य दीसावालज्ञातीयजोसी बलभद्रलिखितम् । ___श्रीवीकानयरगढमहादुर्गे रा'जयतसीराज्ये श्रीखरतरगच्छे भट्टारकश्रीजिनदत्तसूरिपट्टान्वये भट्टारकश्रीजिनप्रभसूरि-अन्वये भ० श्रीजिनहितसूरिशि०७० श्रीआनन्दराज उ०श्रीअभयचन्द्रशिष्यमहोपाध्यायश्रीहरिकलशमिश्राः सि० वा० श्रीसहज कलशगणिना लिखापितम्, ज्ञानावरणीयक्षयार्थम् । शुभं भवतु पाठकस्य ॥
[63] अन्तः--श्रीअङ्गविद्यापुस्तकं संपूर्णम् । ग्रन्थाग्रम् ९००० । दूहा---गुण-रस-अंक-मयं (१९६३) चोदस वार निशेश । कार कनाकतमें लिखी भाउ सुत ललितेश ।
[83] अन्तः- यन्नाम्नि विजयोत्तरं पदमहो मुक्तिर्जरीजम्भते ।
यो गच्छाधिपतिगणी च समभूत् तत्पट्टपाथोनिधौ । पंन्यासः कमलाभिधः समभवत् तस्माद् गणी केशर
_स्तद्भात्राऽवरजेन देवमुनिना ग्रन्थोऽयमङ्कीकृतः ॥ पेथापुरगामवास्तव्यः श्रावकः छगनात्मजहरगोवनाह्वयेनेदं पुस्तकं स्वश्रेयसे पंन्यासपदधारकमुनिवर्य श्रीकेसरविजयाह्नपूज्यपादानां पठनार्थं समर्थितम् ।
सं० १९६६ वर्षे आशा(षा)डमासे शुक्लपक्षे तिथौ ३ ने वार शनेउए समाप्तम् । लि० भावसारः प्राणजीवन ईश्वरदास, मुकाम बोरसद, जिल्ले खेडा, देश गुजरात । शुभं भवतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org