SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [४३९ तस्माज्जातः कनिष्ठो विविधबुधगणश्रेष्ठतां प्रायजान उज्योतिःशास्त्रेण शश्वत् प्रकटितविभवा यस्य शिष्या[:] प्रशिण्याः । विद्रज्ज्योतिर्विदूर्वीपतिविदितगुणो भूमिदर्वीकरेन्द्रो ग्रन्थव्याख्यानखर्वीकृतविबुधगुरुर्वहा(?)गर्वभाजाम् ॥५॥ आसीदासिन्धुदासीकृतगणकगणग्रामणीगवभेत्ता । __ [कर्ता] ग्रन्थान्तराणामतिमतिरनुजस्तस्य कस्याप्यजेयः । मल्लारिर्वादिवृन्दप्रशमनविधये कोऽपि मल्लारिनामा व्यक्ताव्यक्तं प्रवक्ता जगति विशदयन् सर्वसिद्धान्तवित्ताम् ॥६॥ तस्यात्मजः केशवनामधेयो ज्योतिर्विदानन्दसमुद्रचन्द्रः । वाणीप्रवीणान् वदनामृतेन सञ्जीवयामास कलाविलासी ॥७॥ तस्यात्मजः सम्प्रति विश्वनाथो विष्णुप्रसादाद् गुणमात्रजिष्णुः । सर्वज्ञदैवज्ञविलासविज्ञो मल्लारितः साधितसर्वविद्यः ॥८॥ आसीद वेदान्तवेदी स्मृति-निगमपटुामणीर्गर्वभेत्ता कर्ता ग्रन्थान्तराणां फणिपतिनिगमस्यापि वेत्ताऽधिकाशि। वक्ता श्रीनीलकण्ठात्मजभजनपटुनीलकण्ठः स चक्रे । संज्ञातन्त्रं दुरूहं सकलशुभदशा-दुर्दशादर्शभूतम् ॥९॥ गोदातीरस्थगोलाभिधपुरवसतिः पार्थदेशैकभूषा । .. संज्ञातन्त्रस्य टीका व्यदधदभिनवां गद्यपद्यानवद्याम् । शश्वद्विश्वोपकृत्यै विशदतरतया दैवविद् विश्वनाथो - ग्रन्थोग्रग्रन्थिभेत्ता ग्रहगणितविदामग्रगण्योऽप्यवर्गः ॥१०॥ वृ०अन्तः- इति श्रीदिवाकरदैवज्ञात्मज-विश्वनाथदैवज्ञविरचिते श्रीनीलकण्ठज्योतिर्विकृत्संज्ञातन्त्र-सहमाध्यायस्य व्य[T]ख्योदाहृतिः समाप्ता ॥ अकारि विश्वनाथेन संज्ञातन्त्रप्रकाशिका । टीका टीकाकृतां कुर्यात् सज्जालज्जानुबन्धनम् ॥१॥ चन्द्र-बाण-शर--चन्द्र(१५५१)संमिते वत्सरे नृपतिशालिवाहने । मार्गशीर्षसितपञ्चमीतिथौ विश्वनाथविदुषा समापितम् ॥२॥ इति श्रीविश्वनाथदैवज्ञकृता नीलकण्ठ-ताजकटीका समाप्ता ॥ उन्नीसैगरां समे माघ कृष्णातिथि दूज । शनिवारै ज्वाले लिखी हेतु बिहारोपूज ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018008
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy