________________
४३८ ]
मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे [ 6924]
आदि:- श्रीमत्पार्श्वाभिधं देवं केवलज्ञानभास्करम् । वाग्देवीं खेचरांश्चापि नत्वा लग्नमहं ब्रुवे ॥ १ ॥ अन्त:- कृतोऽयं केवलादर्शः त्रैलोक्यस्य प्रकाशकः । श्रीमद्देवेन्द्र शिष्येण श्री हेमप्रभसूरिणा ||२६|| श्री हेलाशालिनां योग्यमप्रभीकृतभास्करम् । भसूक्ष्मेक्षिकया चक्रेऽरिभिः शास्त्रमदूषितम् ॥ २७॥
इति प्रतिभाभसर्वज्ञत्रैविद्यवृन्दारक महामण्डलेश्वरराणक श्री दुर्जनशल्यदेवगुरुभिः प्रणतपादश्री देवेन्द्रशिष्यैः श्री हेमप्रभसूरिभिर्विरचिते त्रैलोक्यप्रकाशे ज्ञानदर्पणापरनाम्नि न[व] ताजिके दिन-मास-फ[ल]-वर्षा ऽर्घकाण्डमण्डलपद्धतिः समाप्ता । [ 7028]
आदि:- प्रणम्य हेरम्बमथो दिवाकरं गुरोरनन्तस्य तथा पदाम्बुजम् । श्रीनीलकण्ठो विविनक्ति सूक्तिभिस्तज्जातकं सूरिमनःप्रसादकृत् ॥१॥ अन्तः- आसीदसीमगुणमण्डितपण्डिताग्र्यो व्याख्यद् भुजङ्गपगवी : श्रुतिवित्सु मुख्यः । साहित्यरीतिनिपुणो गणितागमज्ञश्चिन्तामणिर्विपुल गर्गकुलावतंसः ॥६३॥ तदात्मजोऽनन्तगुणोऽस्त्यनन्तो योऽधोक सदुक्तीः कलिकामधेनुम् । सत्तुष्टये जातकपद्धति च न्यरूपय [द्] दुष्टमतं निरस्य ॥ ६४ ॥ पद्माम्बयासी [द] विततो विपश्विच्छ्रीनीलकण्ठः श्रुतिशास्त्रनिष्ठः । विद्वच्छिवप्रीतिकरं व्यधात् तं संज्ञाविवेकं महिमावतंसम् ||६५ || वृ० आदि:- चण्डीकुण्डलमाकलय्य कुतुकादण्डाभशुण्डाग्रहं
कृत्वा ताण्डवम्बरे पशुपतेः खेलन् खलच्छृङ्खलम् चण्डांशोरिव मण्डलं तदपरं दर्शयन्नम्ब
हेरम्बो जगदम्बिकां विहसयन् वः श्रेयसे कल्प्यताम् ॥१॥ दिवाकरो नाम बभूव विद्वान् दिवाकराभो गणितेषु मन्ये । स्वकल्पितैर्येन निबन्धवृन्दैर्बद्धं जगद्दर्शितविश्वरूपम् ॥२॥ तस्यात्मजाः पञ्च समा बभूवुः पञ्चेन्द्रकल्पा गणिता गणेषु । पञ्चानना वादिगजेन्द्रभेदे पञ्चाग्निकल्पा गणितागमे च ॥ ३ ॥ अजनिष्ट कृष्णनामा ज्येष्ठस्तेषां कनिष्टानाम् । विद्यानवद्यवाचां प्राचां वेत्ता जगत्ख्यातः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org