SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [૪ર૩ [6518] आदिः- नत्वा शिवचरणाजं तातं कोणेरिसंज्ञितम् । वैद्यजीवनकाव्यस्य दीपिका प्रतनोम्यहम् ।।१।। अन्त:- इदानी वैद्यजीवनटीकाकारः स्वकीयं वंशं कथयति यत्रागता त्र्यम्बकपर्वताच्च गोदावरी सिन्धुनदेन युक्ता। तत्रास्ति गोदातटरम्यदेशे षट्खेटकाख्यं नगरं सुरम्यम् ॥१॥ षट्पेटकैर्युक्तमिदं हि तत्र माण्डाभिधो वंशकरो बभूव । श्रीरामदेवेन नृपेण दत्तो धर्माधिकारश्च निबद्धमूलः ॥२॥ माण्डाभिधे वंशवरे वरेण्यः श्रीकृष्णनामा भिषगुत्तमोऽभूत् । कृतं च भाप्यं चरकस्य येन ग्रन्थं च साहित्यसुधासमुद्रः ।। कृष्णादभूदमलकीर्तिलतावितानः श्रीहीरभट्ट इति वैद्यकुलावतंसः । तस्मादभूवंस्तनयाश्च पञ्च गुणैश्च कात्या मुनिभिः समानाः ॥४॥ नारायणो ज्येष्ठतरश्च तेषामोंकारग्रन्थश्च कृतो हि येन । तस्यानुजो विष्णुसमानकीर्तिः श्रीविष्णुनामा भिषजो वरेण्यः ।।५।। तस्माद् भवत्सूनुरुदारकीर्ति: कोणेरिभट्टाभिधवैद्यवर्य्यः ।। ग्रन्थः कृतो येन च लक्षसङ्ख्यः समुद्रतुल्यः सकलोपयोगी ॥६॥ दुग्धाब्धेलब्धजन्मा भिषगपरिद्रवः ज्ञानतः कीर्तितश्च श्रीमच्छीखानखानातुलसदसि त्वभूद्वैद्यविद्यानवद्यः । .... .... .... ..... .... .... .... .... ॥७॥ कोणेरिभट्टस्य च सूनुरासीच्छ्रीरुद्रनामा जगति प्रसिद्धः । टीका कृता येन च पञ्चसङ्ख्या समुद्र तुल्या भिषजां च मान्या ॥८॥ टीका मदीया च भिषग्वराणां स्याद्वृत्तये ज्ञानविवृद्धये च । विद्याचणानां च विभावहेतोः भिषग्वराणां गुणिनां च कोशः ॥९।। मिरयांखाननियोगे टीकेयं च मया कृता । तेन पुण्येन सकलं जगदस्तु निरामयम् ॥१०॥ इति श्रीमत्कौ णेरिभट्टवैद्यपुत्ररुद्रभट्टविरचितायां जीवनटीकायां पञ्चमोल्लासः । [ 6521] मू० आदिः-- गुरुपादं चेष्टदेवं नत्वा वक्ष्यामि ग्रन्थतः । व्याधिनिग्रहनामोऽयं ग्रन्थोऽपि बालबोधकः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy