SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ४२२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे सत्रेष्वग्निहुतस्य वेदविदितं स्थानं च यत् सर्वदा - तद्वः पातु सनातनं हरिमहस्तत्त्वप्रबोधोदयम् ॥१॥ दैवज्ञागमधर्मशास्त्रनिगमायुर्वेददुग्धोदधी नामथ्य स्फुरदात्मबुद्धिगिरिणा विश्वोपकारोज्ज्वलम् । आलोक्यामृतमातनोति विबुधैरासेव्यमत्यद्भुतं ___ श्रीमत्तोमरदेवधर्मतनयः श्रीवीरसिंहो नृपः ॥२॥ इह खलु पुरुषार्थचतुष्टयाय धीमतां प्रवृत्तिः । तत्राद्यो धर्मः । स च शरीरमन्तरेण न सम्भवति । तच्च रोगरहितं धर्मकर्मक्षयं भवति । तत्स्वरूपनिरूपणाय तथैषां प्रतीकाराय च रोगाः परिगण्यन्ते [इति च ॥ पूर्वाचार्योक्तास्तद्यथा । अन्त:- द्रोणी द्रोणाढकं प्रस्थः कुडवश्च पलं पिचुः । शाणको माषकश्चैव यथापूर्व चतुर्गुणम् ॥४॥ सम्यक् प्रयोगः सर्वेषां सिद्धिमाख्याति कर्मणाम् । सिद्धिमाख्याति सर्वैश्च गुणैर्युक्तो भिषग् गुरुः ।।५।। इति श्रीतोमरवंशावतंसरिपुभूतभैरवश्रीधीरसिंहविरचिते ग्रन्थे ज्योतिःशास्त्रकर्मविपाकायुर्वेदोक्तप्रयोगमिश्रकाध्यायः समर्थितश्चायं ग्रन्थः ॥छ।। न श्रेष्ठस्तरणिप्रभावजनितो वंशः समालोक्यते रामाद्याः पृथिवीश्वराः समभवन् यत्र प्रतापोन्नताः ।। नो वा यत्र युधिष्ठिरप्रभृतयो भूपा बभूवुस्ततः । श्रेष्ठस्तोमरवंश एष विधिना सत्कर्मसंसेविना ॥१॥ तत्राभवत् कमलसिंह इति प्रसिद्धः सर्वागमावरणसे वितदेवसिद्धः। तस्मादृतज्जगति भूपतिदेववर्मा विद्या विनोदमतिराहृतपुण्यकर्मा ॥२॥ श्रीदेववर्मात्मज एष धीरः शास्त्रत्रयाद् ग्रन्थमिमं व्यधत्त ।। वीरसिंहावलोकस्य पुस्तकं विबुधावृतम् । वीरसिंहाज्ञया धीमान् सारङ्गो दिविरा(? रो)ऽलिखत् ॥ दैवज्ञधर्मशास्त्रज्ञवैद्यकज्ञपरीक्षितम् । पुस्तकं वीरसिंहार्थं सारङ्गो व्यलिखत् सुधीः ॥ इति श्रीवीरसिंहावलोकनः ग्रन्थः सम्पूर्णः समाप्तः ॥ स्वस्तिश्रीसंवत् १७२३ वर्षे शाके १५८९ प्रवर्त्तमान्ये(ने) ज्येष्ठ शुदि ७ रवौ रा० सुन्दरेण लिखितं अमदावादमध्ये रायपुरवास्तव्य उदिच्यज्ञातीयठाकर०श्री५ शवजी सुतलहुजीपठनार्थ इदं (अयं) वीरसिंहावलोकः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy