________________
३६८ ] ___ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तस्मादाचार्यवौँ हरि-हरभजनप्राप्तसं[विद्]विकाशा
वास्तां ज्येष्ठो नृसिंहोनिखिलगुणनिधी रामचन्द्रः कनिष्ठः । येनानेके प्रबन्धाः क्षितिपतिसमितिख्यातविद्वत्प्रबोधा
बोधार्थ चक्रिरे यैर्भवति हृदि कृतेः कोविदः प्राकृतोऽपि ॥७॥ तत्सूनुः सकलेषु शास्त्रनिवहेष्वाचार्यकृष्णागुरो
लेब्धा ज्ञानविशेषमात्मजनकं श्रीमन्नृसिंहं भजे । तत्पूर्वाश्च कलिप्रलुप्तमखिलं विद्यासमूहं तथा
___ धर्मास्था रचितुं क्षितौ समभवेत् ये ते च ताराहरेः ॥८॥ श्रीमद्राघवसंज्ञकं यतिवरं वन्दे गुरुं संततं
यः सर्वज्ञसमो व्यधाद् भुवि नतान् श्रीयसेवापरान् वादीन्द्रान् बहुवादिदर्पशमनान् जित्वा तथा स्नापये
दद्वैतश्रुतिमूर्धनिर्णयचणो भाष्यादिसंस्कारकः ॥९॥ श्रीविठ्ठलाचार्यगुरोस्तनुजं सौजन्यभाजं जितवादिराजम् । अनन्तसंज्ञं पदवाक्यविज्ञं प्रमाणविज्ञं तमहं नमामि ॥१०॥ यः शास्त्रलोकव्यवहारवित्वान् जगत् समस्तं स्ववश ह्यतानीत् । तमकं कृष्णगुरोर्नमामि रामेश्वराचार्यगुरुं गुणाब्धिम् ॥११॥ यत्संनिधानादभवत्तरोऽमी(सौ) विद्याधिराजाऽजितवादिराजः आचार्यवयं बुधरामचन्द्रं भजामि गोपालगुरोस्तनूजम् ॥१२॥ जगन्नाथाश्रमं वन्दे यति वेदान्तकोविदम् । पदवाक्यप्रमाणझं स्वधर्मे नितरां रतम् ॥१३॥ श्रीनागनाथं जितवादिनाथं विद्याधिनाथं वशराजनाथम् । श्रीकृष्णसूनुं विबुधं नमामि चक्रित्वयोगाजितगीष्पति तम् ॥१४॥ श्रीरामाचार्यसूनुर्हरिहरभजनैकाग्रधीः श्रीनृसिंहा
ऽऽचार्योऽयं माणिकावाप्यजनयदतुलं विट्ठलाचार्यमार्यम् । सोऽहं श्रीपाणिनीयाद्यनुगुणसगुणं प्रक्रियाकौमुदीयं
व्याख्यारूपं प्रसादं विशदमकरवं विट्ठलस्तेन तुष्यात् ॥१५॥
इति प्रसादः संपूर्णो लिखितः श्रीरस्तु कल्याणमस्तु । दीर्घायुर्भूयात् । पाठकयोश्च शुभं भवतु ॥
संवत् १९२५ वर्षे फाल्गुणमासे दशम्यां तिथौ भौमवासरे श्रीमद्राजनगरे लिखितोऽयं ग्रन्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org