________________
__.. प्रशस्त्यादिसंग्रहः ।
[३६७ ग्रन्थेऽस्मिन् स्वरसाधनं कतिपयानौणादिकान् च ब्रुवे ।
स्थाने तांश्च गणान् यथामति तथा न्यायान् पदैः सूचितान् ॥८॥ टीकेयं विपुलेति येन विदुषा संक्षिप्यते तस्य नो ____ लाभः किन्तु समीहिताः पुनरमी सर्वे विशेषाहताः । येनास्माभिरनेकसूरिरचितग्रन्थार्थमालोड्यत
तत्सारं सुलभं विशेषविदुषां प्रीत्यै प्रकाशीकृतम् ॥९॥ अन्तः- श्रीमविट्ठलपादपङ्कजयुगं वन्दे सुरैर्वन्दितं
भक्तेभ्यो धुभयप्रदं सुखकरं विज्ञानदं सर्वदा । क्षोदीयः किल यद्रजोजनितवत् पृथ्वी स्थिरान्ता धरा
___या विश्वस्य विधारणेऽजनि सतां पुष्टौ समर्था श्लथा ॥१॥ वन्दे पाणिनिमीश्वरं वररुचिं शेषं तथान्यान् बुधान्
ग्रन्थान् येऽभ्यदधुः परोपकृतये सूत्रादिभाष्यादिकान् । पोतैस्तैस्तु नरास्तरन्ति गहनं तच्छब्दरत्नाकरं
चित्रं यत् परपारसाधनपरो देवो मरुत्वानपि ॥२॥ यस्मिन् वैदिकधर्मजातमनिशं जागर्ति यद्वैष्णवा
चारानुष्ठितितुष्टविट्ठलविभुः सर्वार्थदः सर्वदा । . ऋग्वेदादिसमस्तशास्त्रनिचयः श्रीपञ्चरात्रागमः . व्याख्यानक्षमपुरुषो विजयते वंशोऽन्ध्रदेशोद्भवः ॥३॥ तद्वंशे नररत्ननायकमणिर्जातोऽविमुक्ताङ्गगजो--
ऽनन्ताचार्य इति त्रिलोकविदितः सर्वज्ञ एवापरः । रामस्वामियतीन्द्रवर्यविहिताचार्याभिषेकस्ततो
लब्धा वन्दितपाञ्चरात्रजनकाद्यो वल्लभानां त्रयम् ॥४॥ तत्सूनुर्निगमागमादिकुशलः सन्न्याय-वैशेषिकं .... .. व्याकृत्य द्वयजैमिनीयभणितिष्वव्याहतप्रातिभः । _ यः सौदर्शनभाष्यमाख्यदखिलं विद्वत्सभासंनिधा
वाचार्यो नृहरिः सदाचरणतः साक्षात्कृतश्रीहरिः ॥५॥ गोपालाचार्यमुख्याः प्रथितगुणगणास्तस्य पुत्रा अभूवन्
कृष्णाचार्यः कनीयानपि भवति गुणैर्येष्ठ आसीद्वरिष्टैः । .... ......... यं वेदाद्याः सुविद्याः स्वयमधिवसतिवत्कुरूत्कर्षहेतो
स्तस्मात् कृष्ण इवेत्यनुजगदुरमुं सूरयः शौरिभक्ताः ॥६॥ ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org