SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [३३७ यथा च-अज्ञानेन धिया विना किल जिनस्तोत्रं मया यत् कृतं किं वा शुद्धमशुद्धमस्ति सकलं नैवं हि जानाम्यहम् । तत् सर्वं मुनिपुङ्गवाः सुकवयः कुर्वन्तु सर्वे क्षमा संशोध्या सुकथामिमां स्वसमये विस्तारयन्तु ध्रुवम् ॥४॥ ॥ इति मदनपराजयं समाप्तमिति । ग्रन्थसङ्ख्या ११६५ ।। संवत् १९४७ ज्येष्ठशुक्ला १० गङ्गादशमीदिने लिपीकृतं जोसी देवकृष्णः जयपुरमध्ये माधवराज्ञ आज्ञा वर्त्तते स्म । [5195] अन्तः- इति श्रीहनुमद्विरचिते महानाटके रामविजयो नाम चतुर्दशोऽङ्कः ॥१४॥ [5196] अन्तः- इति श्रीयशश्चन्द्रमुनिविरचितं मुद्रितकुमुदचन्द्रप्रकरणं अपरनाममुद्रितकुमुदचन्द्रनाटकं समाप्तम् । [संवत् १७९८ मित वर्षे श्रीमदणहिल्लपुरपत्तने श्रीढण्ढेरपाटके श्रीमत्पूर्णिमागच्छीयप्रधानशाखीयभट्टारकश्री ५ श्रीमहिमाप्रभसूरीश्वरचरणाम्भोजभ्रमरायमानभट्टारकश्रीभावप्रभसूरिभिरलेखि पुस्तकमिदम् । शुभं भवतु श्रीश्रमणसंघस्य । श्रीवर्धमानजिनः । श्रीश्यामलपार्श्वनाथः श्रीकलिकुण्डपार्श्वनाथः एते जिनवराः सदा तुष्टिं पुष्टिं कुर्वन्तु सकलविघ्नवातं हरन्तुतराम् । प्रघोषतः किञ्चिद्भिन्नापि वार्ता श्रूयते, तथाहि-कुमुदचन्द्रः पत्तने समागतः, न कोऽपि अनेन सार्धं वादं कर्तुं समर्थः, तदा सिद्धराजनृप-मन्त्रिभ्यां विचार्य यतिवसतिषु चारिपुलकं जलगर्गरीभाजनं मोचापितम् । माणिक्येन मोच्यमानं निवारितम् । देवसूरि-कुमुदचन्द्राभ्यां परस्परवैतालिकमोचनं सूक्तकथनम् । नृपसभायां पणबन्धः, कुटिलं न कर्त्तव्यं, केशानां गुच्छत्रयं वादिदेवसूरेः कण्ठे निक्षिप्तं, उद्गाल्य निष्काश्य सभ्येभ्यो दर्शितम् । पुनर्जल्पः कुमुदचन्द्रः स्त्रीकृतं पुण्यं पुण्यं न भवति । तदा देवसूरिः मात्रा मीढ(मीन)लदेव्या पोडलिकानां चतुर्लक्षमितकरो मोचापितः । पुनजेल्पः कुमुदचन्द्रः केवलि हूउ न भुंजइ चीवरसहियस्स नत्थि निव्वाणं । इत्थि हूया न सिज्झइ मयमेयं कुमुयसूरिस्स ॥१॥ केवलि हूउ वि मुंजइ चीवरसहियस्स अस्थि निव्वाणं । इथि हूया वि सिज्झइ मयमेयं देवसूरिस्स ॥२॥ देवसूरिः-कोटिकोटिहारितो दिगम्बरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy