________________
३३२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे । व्याख्यानार्थं कथानां च शिष्याणां हितहेतवे । आत्मचित्तप्रबोधार्थ सुबोधार्थ महोद्यमः ॥४॥ षट्दर्शनभाषाज्ञः ज्ञानधारी उदारवान् । तथ्याप्यर्हन्मतेनैव कीर्त्यते सर्वसङ्ग्रहात् ॥५॥ संप्रत्येवास्ति क्षेत्रेऽस्मिन् भारते चार्यखण्डके । श्रीजिनवल्लभः सूरिः पट्टे श्रीजिनचन्द्रजे ॥३३॥ वैरङ्गिकः श्रीजिनवल्लभाह्वः पुनः गुरुः श्रीअभयादिदेवः । महातपस्वी जिनदत्तसूरिः सकृत् प्रभो ! जीवनग्रासधारी ॥१॥ . . . . . भिधवर्धमानः सूरीश्वरोऽभूच्चरमप्रधानः । तत्पट्टधारी भुवनैकवीरो जिनेश्वरः सूरिगुणैः सधीरः ॥२॥ जिनाद्यचन्द्रोऽभयदेवसूरिः क्रमेण सूरिजिनवल्लभाख्यः । तत्पट्टधारी कृतविद्यभूरिः युगप्रधानो जिनदत्तसूरिः ॥३॥ पत्तिजिनाद्यस्तत्पट्टचन्द्रः श्रीचन्द्रपट्टे प्रवरो मणीन्द्रः । जिनेश्वरः श्रीकुशलादिसूरिः क्रमेण श्रीश्रीजिनचन्द्रसूरिः ॥४॥ श्रीवेगडेत्याख्यगणस्य कर्ता संपूर्णवृद्धारख्यखरस्य धर्ता । तरान्त्यशब्दाभिधगच्छनेता जिनेश्वरः सूरिरभूच्च नेता ॥५॥ श्रीशेखराख्यो जिनधर्मसूरिस्ततः परं श्रीजिनचन्द्रसूरिः । श्रीमेरुपट्टे सुगुणावतारो गुणप्रभः सूरिगुणैरुदारः ॥६॥ जिनेश्वरस्तस्य विनेय एव तत्पट्टधारी जिनचन्द्रदेवः । युगप्रधानो सुगुणैः प्रधानस्तत्पट्टधारी सुविराज्यमानः ॥७॥ सूरेः श्रीजिनचन्द्राह्वगुरोः शिष्येण चाग्रहात् । टीका शतकशास्त्रस्य कृता भाषामयी शुभा ॥८॥ शिष्याणां सेवकानां च सूप्यंति(? सूत्रिता) श्रीजिनाब्धिना । सर्वार्थसिद्धयाश्चाख्यायाः मणिमाला मनोहरा ॥९॥ युग्मम् । पूर्णचन्द्राब्धिपक्षाख्यप्रमिते वीरवत्सरे । पूर्ण-वेद-मुनीन्दु(? १७४०)वत्सरे विक्रमाह्वये ॥१०॥ कार्तिक्यां शुक्लपूर्णायां दिने जीवे सुयोगके । उरगारख्यस्य साहस्य वादे कर्णपुरे तथा ॥११॥ श्रीह्यनृपमहाराजराज्ये श्रीराष्ट्रकौटिके । तीर्थे श्रीवीरनाथस्य पार्श्वे देवगिरेस्तथा ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org