SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [5142-44] अन्तः– श्रीमत्सर्वार्थसिद्धया मणिस्रजि मतिना रत्नकानि घृतानि नानाशास्त्राकरेभ्यः श्रुतश्रुतविधिनोन्मथ्य तानि स्थितानि । प्रोद्यत्श्री वेगडाख्यागगनदिनमणीनां गणीनां सुशिष्यैः शिष्यानामर्थसिद्धचै जिनकररविभिः शोधनीयानि विद्भिः ॥ १ ॥ शीघ्रगत्या यथा पत्री लिख्यतेऽत्राप्यसौ मया । टीका शतकशास्त्रस्य शोधनीया सतां गुणैः ॥२॥ बैराग्यशतकाख्यस्य टीकायां जिनसमुद्रैः । सर्वार्थसिद्धिमालायां प्रकाशस्तृतीयो मतः ॥ ३ ॥ इति श्रीश्वेताम्बरसूरिशिरोमणिपरमा र्हतशासनगगनाङ्गणदिनमणिः भट्टारक श्री जिनेश्वरसूरीणां पट्टे युगप्रधानपूज्यपरमपूज्यदेवश्री जिनचन्द्रसूरीश्वराणां शिष्येण भट्टारकश्री जिनसमुद्रसूरिविरचितायां श्रीभर्तृहरिणा वैराग्यशतकटीकायां सर्वार्थसिद्धिमणिमालायां तृतीयः प्रकाशोऽयं सम्पूर्णोऽजनि । [5143] [ ३३१ वृ० आदि : - श्रीमन्महाधिपतिमालवदेशराजश्री विक्रमाख्यनृपतेरनुजोऽस्त्यसौ वै । तेनोत्तमं विरचितं शतकत्रयं तत् सर्वार्थसिद्धिमणिमालिकनाम टीका || शिष्यप्रशिष्यस्य प्रबोधनार्थं आत्मप्रबोधाय तथैव सम्यक् 1 सतां प्रबोधाय यथार्थनामा करोति श्रीजि ( : जै) नसमुद्रसूरिः ॥ [ 5145] Jain Education International मुख्यशोधनसंज्ञायां आदि : - इति श्रीश्वेताम्बरसूरिशिरोमणिश्रीयुगप्रधानशाखायां श्रीसौधर्मिकगच्छे परमार्हच्छासने संविज्ञपक्षे श्रीमद्बृहत्पूर्णखरतर कृष्णवे गडबिरुदे चन्द्रान्वये भ० श्रीजिनवल्लभसूरिसन्ताने भ० श्री जिनचन्द्रसूरीश्वराणां शिष्यश्री जिनसमुद्रसूरिणा विरचिते वैराग्यभावनाशतके चतुरध्यायेषु महापुरुषाणां वर्णनार्थाधिकारे ऽध्यायः प्रथमः । प्रणम्य जिनचन्द्रार्हान् सिद्धान् सूरिजिनेश्वरान् । वैराग्यभावनासत्कं शतकं कीर्त्तयाम्यहम् ॥ १॥ पूर्वं शतप्रबन्धे च रचिताऽस्ति शतत्रयी । श्रीभर्तृहरिणा राज्ञा तेषां टीका कृता मया ॥२॥ सर्वार्थसिद्धिमाला वै संज्ञा तस्याः प्रतिष्ठिता । तस्याश्चोद्द्योतनार्थं मे कृतोऽयं च परिश्रमः ॥ ३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy