________________
प्रशस्त्यादिसंग्रहः ।
[३२३ [4998] वृ० आदिः-श्रीपाच फलवर्द्धिकाद्भुतमहाराजं महोराजितं
त्रिकृत्वः सुकृतैकभाजनमहं नत्वा कृपावारिधिम् । __ सारं श्रीगुरुराजपादकमलं चानन्दसंवर्द्धकं ।
संवक्ष्ये विवृतिं यथा मतिमतां खण्डप्रशस्तेः शुभाम् ॥१॥ अन्तः--इति श्रीगुणविनयविरचितायां खण्डप्रशस्तिवृत्तौ कल्क्यवतारहरिस्तुतिव्याख्या इति दशावतारव्याख्यानेन समर्थिता श्रीखण्डप्रशस्तिवृत्तिः ।
विद्यावारिधि-रस-शशधर(१६४३)मितवर्षे विक्रमार्कभूभर्तुः । श्रीमत्खरतरगच्छे श्रीमज्जिनचन्द्रसूरिवरे ॥१॥ विजयिनि विजितानेकोद्भटकटुसदवादिवादिसंदोहे । सूरिः श्रीजिनमाणिक्यपट्टपूर्वाद्रिमार्तण्डे ॥२॥ युग्मम् । आसंच्छीक्षेमशाखासु सुधातुलफलोपमाः । अभिषेकपदप्रौढाः क्षेमराजा यतीश्वराः ॥३॥ श्रीभारतीप्रतिममन्मतिमद्विचाराः शास्त्रार्थसार्थवरनारधिलाश्च पाराः(?) । प्रापुः प्रदीप्तपदवीमपि यद्विनेया श्रीपाठका निपुणवादिभिरप्यजेयाः ॥४॥ शिवसुन्दरनामानः कनकाह्वाश्च सत्तमाः । यन्मुखाम्भोजमासाद्य कमला मुमुदेतराम् ॥५॥ युग्मम् । साधव्याः वाचना भव्या अशोभन्त शुभोदयाः । श्रीदयातिलकाश्चात्र वैराग्यरससागराः ॥६॥ प्रमोदमाणिक्यगणिप्रधानाः शिष्याः पुनर्वाचकताभिधानाः । राजन्ति तेषां करुणावधानास्तच्छिष्यदक्षा विदितार्थतानाः ॥७॥ माधुर्यसारैर्वचनप्रकारैर्जिग्युः सुराचार्यमपीह तारैः । जयन्तु ते श्रीजयसोमशिष्टाः सुपाठकास्ते गुरवो गरिष्ठाः ॥८॥ येषां प्रसादेन मया विदृष्ट्वा स्वबोधवृद्धयै विततार्थसारा ।
खण्डप्रशस्तेविवृतिवरेण्या प्रसद्य शोध्या च बुधैर्मयेयम् ॥९॥ इति श्रीपण्डितशिरोरत्नश्रीजयसोमगणि-शिष्यपण्डितगुणविनयगणिभिर्विरचिता श्रीखण्डप्रशस्तिवृत्तिः सुबोधिकानाम्नीति श्रीफलवर्द्धिकाधीशश्रीपार्श्वनाथप्रसादाचिरं पाठकश्रोतृसुखदायिनी स्तात् ।
राभस्यात् किञ्चिदज्ञानाद् यद्विरुद्धमवादि तत् । नोपेक्षणीयं किन्त्वेतद्विशोध्यं विबुधैरिह ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org