________________
३२२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे वृ०अन्तः- इति श्रीकृष्ण-रुक्मणीवेलिः पृथ्वीराजकृता समाप्ता तत्र कदाऽयंग्रन्थः संजातस्तत्कथयति ग्वालकः--
वरस अचल गुण अंग ससि संवति (१६३८) तवीउ जस करि श्रीभरतार । कीर श्रवणे दिनराति कंठ करि, पांमइ श्रीफल भगत अपार ॥ इति सुगमम् ।। इति सम्पूर्णेयमस्याः टीका सुबोधमञ्जरीनाम्ना। अथ च टीकायाः प्रशस्तिरवधार्याश्रीराठोडकुलावतंसविलसत्कीर्तिमहादानकृत्
कल्याणाभिधभूपतिः समभवत् श्रीविक्रमाख्ये पुरे । यत्सूनुर्गुणिनां वरो न तु पृथु(थ्वी)राजो महीमण्डले
विख्यातः सुरसद्गुरूपममति/त्यां कविः सत्कविः ॥१॥ लक्ष्मीनायकभक्तितत्परतया कृत्वा गुणोत्कीर्तनं
वल्लीसंज्ञमिदं स्वपातकचयं हत्वा फलं जन्मनः । प्राप्तं येन सुतीर्थवन्मधुपुरि प्रान्ते पदं मौक्तिकं
लब्धं तस्य कृतेः कृता च मयका टीका सुबोधाभिधा ॥२॥ श्रीमद्विक्रमराजतो वसु-मुनि-क्रौञ्चारितुण्डाऽवनी
संख्ये संवति तुर्यमास्यधिकतां प्राप्ते सिते पक्षके । प्रातिथ्यामुशनोऽह्नि पाल्हणपुरे पेरोजनाम्ना नृपे
राज्य शासति पद्मसुन्दरगुरोः शिष्येण टीका कृता ॥३॥ सारङ्गाभिधवाचकेन सुतरां शिक्षावचश्चातुरी
मङ्गीकृत्य सुशिष्यवर्गकथनं श्रुत्वा तथेति कृतम् । अस्मिन् यद् वितथं वचोविवरणं संशोध्य शुद्धाशयैस्तत्सत्यं क्रियतां ममाञ्जलिमिमं दृष्ट्वा सुहृष्टयार्थिभिः।।४॥ चतुर्भिः सम्बन्धः । श्रुतो न कर्त्तर्मुखतः कदाचित् लोकोक्तपाठोऽपि न भाति तादृक् । श्रुताश्रुतोऽयं रचितो मयाऽऽर्थो विशोधनीयो विबुधैवरेण्यैः ॥५॥ सुबोधमञ्जरीनाम्नी टीका प्रकृतिकारणम् ।
गुणिनामार्थवत्येषा चिरं नन्द्यात् सुसौख्यदा ॥६॥ इति सुबोधमञ्जरीटीका सम्पूर्णा । ग्रन्थाग्रं सूत्रसमेतं १९५१ मानम् ।
मू०अन्तः-इति वल्लिः समाप्ता । संवत् १७०६ वर्षे आसो सुदी दसमी १० भोमवासरे । बा० प्रतापपठनार्थः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org