________________
प्रशस्त्यादिसंग्रहः ।
[३१३. इति श्रीशत्रुञ्जयमहातीर्थे सोमतिलकसूरिर्वन्दते । बिम्बसंख्या संक्षेपात् कृता मया । संवत् १९६१ वर्षे मितिफाल्गुणकृष्णपक्षे षष्ठम्यां(ष्ठ्या) तिथौ शनिवासरे । ।
[4936] अन्त:- श्रीषण्डेरकीयगच्छे श्रीयशोभद्रसूरिसंताने तत्पट्टे श्रीसालिसूरिः, तत्पट्टे श्रीसुमतिसूरिः तत्पट्टे श्रीशान्तिसूरयः । तदन्वये श्री शान्तिसूरिविजयराज्ये वा० श्रीनइ(य)कुंजरद्वितीयशिष्यमु० हंसराजः(जेन) श्रीभोजचरित्रं सपूर्ण कृतम् ॥
[4941] अन्तः- श्रीचन्द्रगच्छाम्बरभूषकोऽभूत् तपागणे भानुरिवेददीप्तिः ।
प्रबोधयन् नव्यजनाम्बुजालीः स्वगोविलासैरिव साधुवर्गः ॥१॥ तत्राभवन् वरगुणगणमणिरोहणमहीधरप्रतिमाः । परमगुरुसोमसुन्दरगुरवो विद्याब्धिपारगताः ॥२॥ तच्छिष्या मुनिसुन्दरगुरवो जयचन्द्रसूरयोऽभूवन् । स्व-परागमे पृथुजलनिधिपारगता रुचिरगुणनिलयाः ॥३॥ अभवंस्तद्विनेयाः श्रीविशालराजाभिधानगुरुराजाः । श्रीयुक्तरत्नशेखरगुरव उदयनन्दिसूरयश्चापि ॥४॥ चारित्ररत्न-लक्ष्मीसागरगणि-सोमदेवनामानः । विजयन्ते उपाध्याया एते सम्प्रति लसन्मतयः ॥५॥ श्रीमन्मुनीशमुनिसुन्दरसूरिराजशिष्यो मनीषिशुभशीलमुमुक्षुरेषः । प्रबन्धमेनमलनाम्बुधिपुष्करेषु चन्द्रप्रमाणसमये किल विक्रमार्कात् (2) ॥६॥ प्रमथमपि विद्वद्भिः प्रबन्ध एव एव तु (१)। संशोध्यः कृतपसारे भोजस्य मेदिनीपतेः ॥७॥
[4944 ] अन्त:--अन्यदा श्रीवस्तुपालः ससंधः श्रीशत्रुञ्जये देवान् नत्वाऽग्रतश्चलन् देवकपत्तने ययौ । अत्रान्तरे संघमध्ये सोमेश्वरपण्डितेनेदं काव्यमुक्तं वस्तुपालं प्रति, यतः
लक्ष्मी प्रेयसिकेयमास्यशितिता बैकुण्ठकुण्ठोऽसि नो
___ नो जानासि पितुर्विनाशमसमं सम्यक् स्थितैः पांशुभिः । मा भैः भीरुगभीर एष भविताम्भोधिश्चिरं नन्दतात्
संघेशो ललितापतिर्जिनपतिस्नात्राम्बुकल्पं सृजन् ॥१॥ ततो वस्तुपालेन तस्य लक्षद्रव्यं दत्तं इति ॥ इति बप्पभट्टिप्रबोधितद्विजेन पठितं जिनस्तुतिकाव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org