________________
प्रशस्त्यादिसंग्रहः ।
[३११ सिरिमुणिचन्दगुरूणं पयपंकयरायहंससारिच्छो । पंडियतिलओ आसी सुपसिद्धो वीरदेवगणी ॥३॥ तेणं एसा रइया महिवालकहा वियड्ढमणहरणा । निम्मलपयत्थकलिया निययगुरूणं पसाएण ॥४॥
इति श्रीमहीपालकथा समाप्ता ।
[4906] अन्तः- संवत् १५०९ वर्षे मालवदेशे छेटमाग्रामवासि-प्राग्वाटज्ञातीयसा० नरपालभार्यापवी--त पुत्रेण सा०मांइयाकेन तत्पत्नी स० रत्नुतत्कुक्षिसमुद्भूतवना-फनातद्भगिनी गांगी-चांगीकुटुम्बयुतेन श्रीमत्तपागच्छमण्डनश्रीसोमसुन्दरसूरि-शिष्यश्रीरत्नशेखरसूरि-शिष्यलवपण्डित पं०विनयमूर्तिगणीनां श्रीविजयचन्द्रकेवलिचरित्रं वाचनार्थं स्वश्रेयसे कायथाग्रामे लिखापितम् । सागोधाकेन लिखितमस्तीति ।
[4921] अन्तः- पञ्चदण्डछत्रप्रबन्धः । त्रिभुवनप्रसिद्धगगनाग्रजाग्रच्छिखरमहाकालप्रासादाप्राच्छलब्धभीष्मगन्धमादनस्थानपार्श्वस्थसिद्धवटशाखाच्छादितभैरवकुण्डासन्नोपविष्टकालउकोईलउ नैरव मसाणखंभ अग्निकवेताल झापडादिवीरसाधनसिद्धानेकयोगीन्द्रनवनाथचतुरशीतिसिद्धषट्पञ्चाशत्कोटिकात्यायनीचतुःषष्टियोगीनी-द्विपञ्चाशत्क्षेत्रपाल-त्रिपुरोत्तालहनुमन्त-सुग्रीव-नारसिंहाद्यनेकबद्धवीरवलयपीठखर्परतस्करगुहीगह्वराकपर्दिकयतकारचतुष्किकामहाराजाधिराजविक्रमादित्यविविधक्रीडाकाननाद्यनेककमनीयकौतुककोटिदिदृक्षाक्षिसदूरदूरतरदेशागतमध्यमोत्तमजनजनितवर्यायां श्रीउज्जयिनीनगर्याम् ॥ उज्जयिनीवर्णनम् ।
- [4922] आदिः- युगादिदेवादिम-वर्द्धमानान्तिमान् जिनान् केवलिनः परांश्च ।
श्रीपुण्डरीकादिगुरून् यतींश्च नमाम्यहं बोधिसमाधिहेतोः ॥१॥ किञ्चिद् गुरोराननतो निशम्य किञ्चिन्निजान्यादिकशास्त्रतश्च । ग्रन्थो ह्ययं पञ्चशतीप्रबोधसम्बन्धनामा क्रियते मया तु ॥२॥
लक्ष्मीसागरसूरीणां पादपद्मप्रसादतः ।
शिष्येण शुभशीलेन ग्रन्थ एष विधीयते ॥३॥ अन्तः- इति भावस्वदारसंतोषे यतिशुद्धाहारग्रहणभूपयतिसंबन्धः। प्र० ७९४१ । इति श्रीसोमसुन्दरसूरिपट्टालंकरण–श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिपट्टालंकरणश्रीरत्नशेखरसूरिपट्टालंकरण-श्रीलक्ष्मीसागरसूरि-श्रीसोमदेवसूरि- श्रीरत्नमण्डनसूरिशिष्यपं०शुभशीलगणिविरचितपञ्चशतीसंबन्धे चतुर्थोऽधिकारः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org