SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [३०९ धर्मार्थी लभते वृषं धनुयुतो वृद्धिं च निःस्वो धनं पुत्रार्थी तु कुलोचितं च तनयं कामांश्च कामी लभेत् । मोक्षार्थी वरमोक्षमाशु लभते प्रोक्तेन सान्द्रेण किं ह्येतत् शैलमुनीन्द्रराजचरितं सर्वार्थसिद्धिप्रदम् ॥९६॥ पठकः पाठकश्चैव वक्ता श्रोता च भावकः । चिरं नन्द्यादयं ग्रन्थस्तेन सार्द्ध युगावधि ॥९७|| प्रमाणमस्य ग्रन्थस्य द्विसहस्रमितं बुधैः । श्लोकानामिह मन्तव्यं हनूमच्चरितश्रुते ॥९७|| इति श्रीहनूमच्चरित्रे महाकाव्ये ब्रह्माजितविरचिते द्वादशसर्गः पर्याप्तः ।। इति श्रीहनूमच्चरित्रं संपूर्ण लिखापतं श्रीपूज्यआचार्यजट्टमल्लस्वामिजी-तच्छि(छै)क्षवाइमल्ल ऋषिस्वामीजी-तच्छि(च्छै)क्षपूज्यराइमल्लऋषिस्वामिजी-तच्छि(च्छे)क्षपूज्यमानमुनीश्वरऋषिस्वामीजी-तच्छि(च्छे)क्षश्रीपूज्यदयालऋषिजी-तच्छिी(च्छै)क्षश्रीपूज्यमुनिमाईदासऋषिजी-तदन्तेवासिना लिखितमिदं पुस्तकं पुण्यपूर्णानन्दर्षिहरिजीऋषिणा स्वात्मार्थे । संवत् १७५९ वर्षे वर्षाऋतौ द्वितीयमासे कृष्णपक्षे द्वितीयायां विधोः सुतवासरे अवरंगसाहराज्ये गताब्द ४५ सिरन्दिनगयर्या मध्ये लिपीकृतम् । [4886] अन्तः- इति श्रीकूर्मापुत्रकथानकं समाप्तम् । संवत् १६५१ वर्षे चैत्रकृष्णत्रयोदश्यां लिखितं पण्डितसभाशृङ्गारगुणगणागारधृतदुर्द्धरमहावतभारकृतभव्यजनोद्धारपण्डितश्रीनयविजयगणिक्रमभ्रमरायमाणविद्याविजयगणिना लिखितं सतीर्थ्यगणिप्रवरगणिश्रीविनयविजयपठनार्थम् ।। यावत् शीतकरस्य मण्डलमिदं स्वःसत्पथे भ्राजते पृष्टे यावदसौ भुजङ्गमपतिर्धत्ते भुवं दुर्द्धराम् । लोके यावदपाकरोति तमसां स्तोमं गभस्तिद्युति स्तावन्नन्दतु पुस्तिकेयमनिशं प्राज्ञोपकारक्षमा ॥ श्रीतपागच्छे लाभपुरनगरे श्रीअकबरराज्ये जयोऽस्तु । [4890] अन्तः- इति कूर्मापुत्रचरित्रं सम्पूर्णम् । संवत् १९२६ ना वरषे आसो वदि चतूरदसी वार रवेउ ने दिवसे कलाक ८ बजते स्मापत । ली: श्रीवढवाणमधे श्रीरीषभनाथजीना प्रसादतः । संपूर्ण ली०सागोवनजी मकनजी ते वीसा सरमाली पोतार्थे श्रीवढवाणमां रेवासी तेना ग्रंथाग्रंथ ७०० श्लोक १० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy