SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ३०८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे सृष्टिः समयसारस्य कर्ता शूरपदेश्वरः । श्रीमान् श्रीकुन्दकुन्दाख्यस्तनुते मेदुरां मतिम् ॥१७॥ पुराणी पद्धतिर्यस्य हृदये प्रस्फुटं गता । प्रणौमि जिनसेनस्य चरणौ शरणं सताम् ॥१८॥ जीयात् समन्तभद्रोऽसौ भव्यकैरवचन्द्रमाः । दुर्वादिवादकण्डूनां शमनैकमहौषधिः ॥१९॥ अकलङ्कगुरु यादकलङ्कपदेश्वरः । बौद्धानां बुद्धिवैधव्यदीक्षागुरुरुदाहृतः ॥२०॥ शुद्धसिद्धान्तपाथोधिपारीणां परमेश्वरः । नेमिचन्द्रश्चिदानन्दपदवीमुख्यतां गतः ॥२१॥ प्रभा गुणवती यस्य प्रभाचन्द्रस्य सूरीणाम् । सोऽस्तु मे बुद्धिसिद्धयर्थं कारुण्यादिरसालयः ॥२२॥ पश्चाचाररता अन्ये सूरयः सश्रुता सुरैः । ते मे दिशन्तु सन्मेधां पद्मनन्दीश्वरादयः ॥२३॥ मङ्गलादिप्रसिद्धयर्थ मया भावेन संस्तुताः । श्रीहनुमत्कुमारस्य कथायाः सिद्धये पुनः ॥२४॥ गुणग्रहणनिर्मुक्ता दृश्यन्तेऽमी जनाः कलौ।। तेषां भयात् कथं न स्याद् मतिः कृत्ये विसारिणि ॥२५॥ अन्त:-- जैनेन्द्रशासनसुधारसपानपुष्टो देवेन्द्रकीर्तियतिनायकनैष्ठिकात्मा । तच्छिष्यसंयमधरेण चरित्रमेतत् सृष्टं समीरणसुतस्य महर्द्धिकस्य ॥२६॥ विशदशीलस्वर्धनीमिलातलैकराजहंससोत्सवाय क्रीडनप्रियः स्वमतसिन्धुवर्द्धनप्रकृष्टयानीनन (?) पीनतेजसोद्भुतप्रभासितः सुरेन्द्रकीर्ति-शिष्यविद्ययाद्यनङ्गमईनैकपण्डितः कलाधरस्तदीयशिष्यदेशनामवाप्य शुद्धबोधरमाश्रितो जितो जितेन्द्रियस्य भाक्तिकः । गोलाशृङ्गारवंशे नभसि दिनमणिवीरसिंहो विपश्चिद् ___ भार्यापृथ्वीप्रतीतः तनुरुहविदितो ब्रह्मदीक्षाश्रितोऽभूत् । तेनोच्चैरेष ग्रन्थः कृतकृतिसुतरां शैलराज्यस्य सूरेः श्रीविद्यानन्दिदेशात् सुकृतविधिवशात् सर्वसिद्धिप्रसिद्धयै ॥१४॥ इदं श्रीशैलराजस्य चरितं दुरितापहम् । रचितं भृगुकच्छे च श्रीनेमिजिनमन्दिरे ॥९५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy