________________
प्रशस्त्यादिसंग्रहः ।
३०५ स श्रीनाभिनरेन्द्रनन्दनजिनः प्रेयांसि देयाचिरं
यः स्थाम्ना त्रिजगत्पराभवकरं भूपं जिगाय स्मरम् । स्कन्धद्वन्द्वनिलीनकुन्तलततिव्याजेन वर्याक्षर
न्यासं वैरिजयप्रशस्तिरमला तेनैव किं लिख्यते ॥१॥ श्रीसिद्धार्थनरेन्द्रवंशतिलकः श्रीवर्द्धमानो जिन
स्तत्पट्टे किल पञ्चमो गणधरः स्वामी सुधर्मा ततः । श्रीजम्बू-प्रभवादयो गणभृतस्तेषां क्रमेणागतः
श्रीमानश्चलगच्छ एष विजयी विश्वे चिरं नन्दतात् ॥२॥ तत्रार्यरक्षितगुरुर्जयसिंहसूरिः श्रीधर्मघोषगुरवोऽथ महेन्द्रसिंहाः । सिंहप्रभो गणधरोऽजितसिंहसूरिदेवेन्द्रसिंहगुरवः परवादिजैत्राः ॥३॥ धर्मप्रभो गणधरो जितवादिसिंहः श्रीसिंहसूरितिलका गुरवो महेन्द्राः । तत्पट्टकाननमनोहरकल्पवृक्षा विश्वे जयन्तु सुचिरं गुरुमेरुतुङ्गाः ॥४॥
महेन्द्रप्रभसूरीन्द्रपाणिपङ्कजदीक्षिताः । दक्षमुख्यास्त्रयः शिष्या अभूवन्निति नामतः ॥५॥ श्रीमुनिशेखरसूरिः श्रीजयशेखरसूरयः । श्रीमेरुतुङ्गसूरीन्द्रास्ते च पट्टे प्रतिष्ठिताः ॥६॥ कविचक्रधरः श्रीमान् सूरिः श्रीजयशेखरः । नापि वेधा विधातुं यत्कवित्वगणनां विभुः ॥७॥ प्रबोधचिन्तामणिरद्भुतस्तथोपदेशचिन्तामणिरर्थपेशलः ।। व्यधायि यैर्जनकुमारसम्भवाभिधानतः सूक्तिसुधासरोवरम् ॥८॥ विज्ञार्थितैस्तैः किल धम्मिलस्य प्रशस्यमेतच्चरितं वितेने । निपीयतां तत्र पवित्रपुण्यरसः सरस्यामिव भव्यलोकैः ॥९॥ द्वि-षट्-वारिधि-चन्द्राङ्कवर्षे [१४६२] विक्रमभूपतेः । अकारि तन्मनोहारि पूर्ण गुर्जरमण्डले ॥१०॥ तत्र त्रीणि सहस्राणि तथा पञ्चशतानि च । चतस्रोऽनुष्टुभश्चेति ग्रन्थसङ्ख्या विनिश्चिता ॥११॥ ग्रन्थाग्रन्थ (३५०४)।
यावन्मेरुमहीधरः क्षितितले यावच्च रत्नाकरा . यावच्चन्द्रदिवाकरौ ग्रहगणा यावन्नमस्तारकाः । भव्यानां शिवमार्गदर्शनविधौ बिभ्रत्प्रदीपायितं
तावन्नन्दतु धम्मिलस्य चरितं वाच्यं मुनीन्द्रश्चिरम् ॥१२॥
BR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org