________________
प्रशस्त्यादिसंग्रहः ।
[ २८१ श्रीशान्तिचन्द्रगणीमहेन्द्राणां शिष्यमुख्योपाध्यायश्रीरत्नचन्द्रगणिभिर्विरचिते । श्रीभक्तामरस्तव १ - कल्याणमन्दिरस्तव २ - श्रीदेवाप्रभोस्तव - श्रीमन्धर्मस्तव - ऋषभ वीरस्तव - श्रीकृपारसकोश- श्री अध्यात्मकल्पद्रुम - श्री नैषधमहाकाव्यवृत्तिभगिनीनां लघुसहोदरे श्री सम्यक्त्वसप्ततिप्रकरणस्य श्री सम्यक्त्वरत्नप्रकाशनामबालावबोधस्य श्रीसमवसरणस्तवबालावबोधस्य
वृद्धबान्धवे श्रीप्रद्युम्नचरिते महाकाव्ये बलदेवदीक्षा-तपःसाधनपञ्चमस्वर्गगमनश्रीनेमिनिर्वाणप्रद्युम्न - शाम्बादिकेवलज्ञान - मुक्तिगमनवर्णनो नाम सप्तदशः सर्गः सम्पूर्णः । तत्समाप्तौ च सम्पूर्ण श्री प्रद्युम्नचरितं नाम महाकाव्यम् । अथ प्रशस्तिर्लिख्यतेश्री वीरशिष्यो गणभृतसुधर्मा श्रीद्वादशाङ्गी समलब्धमर्मा । श्रीमत्तपागच्छमहाद्रुमूलमासीद् भवाम्भोनिधियानपात्रम् ॥१॥ आसीद् गुरुस्तस्य परम्परायां साधुक्रियामार्गविकाशभास्वान् । आनन्दपूर्वो विमलाग्रसूरि [ : ] बुद्ध्या समानीकृतदेवसूरिः ||२|| तत्पट्टगगनरत्नं सूरिश्रीविजयदानसूरिवरः ।
३६
आसीद् भाग्यनिधानं गुणगणनिलयः क्रियापात्रम् ||३|| श्रीहीरविजयसूरिस्तत्पट्टवैभूषणं प्रशमसदनम् । आसीन्नरपतिराशि [ : ] प्रणतशिरोमौलिरत्नकृतचर्चः || ४ || गील्यार्या || तस्यापि शिष्यरत्नं स्वस्तिश्रीविजय सेनसूरिवरः । आसील्लब्धिमहाब्धिः शमरसपात्रं जगद्विदितः ॥५॥ तत्पट्टवंशमुक्तामणिरिव तेजस्वितादिगुणयुक्तः । श्रीविजयदेवसूरिः शास्ताऽस्तितमां तपगणे सुगुणाः ॥६॥ [ : ] सौभाग्यगुणेन स्मारयतितमां च शीलगुणयोगात् । जम्बूस्वामिनमुच्चैर्जयतात् श्रीविजयदेवसूरिगुरुः ॥७॥ श्री आनन्द विमलगुरुशिष्या [] श्री सहजकुशलविबुधवराः । सिद्धान्तमनिकषा बभूबुरुद्दामगुणनिवहाः ॥ ८॥ तेषां शिष्या मुख्या वाचकवरसकलचन्द्रनामानः । येषां गिरं सुधामिव निपीय भव्याः प्रमोदन्ते ॥ ९ ॥ श्रीशान्तिचन्द्रा वरवाचकेन्द्रा बभूवुरब्जप्रतिवीरवक्त्राः । शिष्येषु मुख्या बहुषु प्रवीणास्तेषां गुरूणां गुणभाजनानाम् ॥ १०॥ श्रीमज्जम्बूद्वीपप्रज्ञप्तेर्वृत्तिरत्नसवितारः ।
श्रीमत्साहिअकब्बर भूपतिपर्षत्सु लब्धबहुमानाः ॥ ११ ॥ गीत्यार्या ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org