SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । तस्याभूद् भूपमर्दो टमुकुटतटीकोटिघृष्टांहिपद्मः शिष्यः शस्यो बुधोधैर्जिनपतिरिति सन्नामतः सूरिरुच्चैः । विख्यातः क्षोणिपीठे सुविहितयतिराट्चक्रचक्राधिनाथ *छन्दो-ऽलङ्कार-तर्कप्रमुखनिखिलसद्ग्रन्थविस्तारितार्थः ॥२॥ प्रतिदिनमपि सिद्धिप्रेयसीसंगसौख्यानुगतनवकथास्वाक्षिप्तचित्तं निरीक्ष्य । क्षणमपि दयितं तज्ज्ञानचारित्रलक्ष्मौ मुमुचतुरुदिता[....त्मभीत्येव यं च ॥३॥ सुगुणनिजपतीनां कालदोषादभावे ध्रुवमतिगुरुशोकात् सर्वविद्याः समेत्य । बत हृदयसमुद्रेऽस्ताधगाम्भीर्यभाजि प्रकटितगुरुसत्त्वे यस्य सद्यो निपेतुः ॥४॥ तस्य स्वाचारनिष्ठा प्रसरगुरुतराबद्धकक्षस्य शश्व ____ निःक्लेश: शिष्यलेशः मुमतिगणिरिति ज्याप्रसिद्धाभिधानः । निर्देशात् सद्गुरूणां सुनिबिडजडताश्लिष्टधीरप्यधीताऽ ल्पग्रन्थस्तत्प्रसादाद् व्यरचयदमलां वृत्तिमेतां सुचेताः ॥५॥ प्रारब्धा श्रीस्तंभतीर्थवेलाकूले कुले श्रियाम् । मण्डपदुर्गे चेयं समर्थिता तथा प्रायः ॥६॥ प्रथमादर्श लिखिता वृत्तिरियं श्रीजिनेश्वरगुरूणाम् । अस्मद्गुरुपट्टप्रतिष्ठितानां प्रभाववताम् ॥७॥ शिष्येण परोपकृतौ तपसि च बद्धोद्यमेन सदमेन । कायोत्सर्गेऽतन्द्रेण साधुना कनकचन्द्रेण ॥८॥ किञ्चिच्च- हेमप्रभः शालिभद्रोऽमृतमूर्त्तिरिहा[भ]वत् । - लेखनात् पट्टिकामाप्टेंघुण्टनाच्चोपकारिणः ॥९॥ इह यदनवबोधाद्राभसिक्यान्मया वा उत पतदुपयोगादन्यथा किञ्चिदुक्तम् । तदलमनलसाः स्राग् ज्ञातसिद्धान्ततत्त्वाः मयकि कृतकृपाः श्रीधीधनाः शोधयन्तु ॥१०॥ कृत्वेमां विवृति यत्पुण्यं समुपार्जितं मया किमपि । तेन विधिधर्मरागी भूयाल्लोकः समस्तोऽयम् ॥११॥ शर-निधि दिनकर(१२९५)संख्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरिय नन्दतात् सुचिरम् ॥१२॥ इति श्रीजिनपतिसूरियुगप्रवरविनेयपण्डितसुमतिगणिनामधेयविरचिता श्रीगणधरसार्द्धशतकवृत्तिः समाप्ता शुभं भवतु । ग्रन्थाग्रम् १२००० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy