________________
२६२ ]
मुनिराजपुण्यविजयानां हस्तप्रतिसंग्रहे नानालंकारसारं रचितकृतबुधाश्चर्यचित्रप्रकार
नानाछन्दोऽभिरामं नगरमुखमहावर्णकाव्यप्रकामम् । दृब्धं काव्यं सटीकं सकलकविगुणं तुर्यचक्रेश्वरस्य
क्षिप्रं यैस्तेऽभिषेकाः प्रथमजिनपदाश्लिष्टपादा मुदे नः ॥१६॥ यद्वक्त्रान्तोज(? न्ताज)रङ्गाङ्गणभुवि भुवि नाभोगभङ्गीप्रबन्धा
. नानाछन्दः प्रबन्धै रचितबुधमम(न)श्चित्रचित्रप्रबन्धाः । नर्नयुद्दामकामप्रकटनविकटोत्पाटपाटप्रचारा
श्रीवाणी नर्तकीव प्रसभमभिसभं स्फारहारप्रकारा ॥१७॥ सूरप्रभाभिषेका विवेकसेकातिरेकतश्छेकाः । प्रपुनन्तु श्रीमन्तस्ते मच्चित्तं सुधीमन्तः ॥१८॥ श्रीमद्वागजडदेशादानीय द्रुततरं लवणखेटे । दीक्षाशिक्षामग्राहि येन जिनपतिगुरुप्रष्टौः(: ष्ठः) ॥१९॥ सरलत्वविजितसरलं तरलं विधिमार्गगुणगणग्रहणे ।। वागाचार्य तमहं स्मरामि गुणगणियशश्चन्द्रम् ॥२०॥ क्वैताः श्रीजिनदत्तसूरिसुगुरोर्वाण्योऽब्धिमध्योपमाः
क्वाहं दुर्गमहाटवीमृगनिभः प्रास्तान्तरप्रातिभः । तद्वृत्या हितबुद्धिरुद्धतमतिः कर्णे यथाकुण्डलं
कुर्वन्नेव विधिच्युतेऽहमपि तल्लप्स्ये तथा हास्यताम् ॥२१॥ महात्मनः पुण्यतिथेस्तथापि तस्यैव माहात्म्यवशाद् विधास्ये ।
वृत्तिं विचित्रां गणभृच्छतस्य सार्द्धस्य संक्षिप्ततरां सुबोधाम् ॥२२॥
वृत्त्यन्तः-- अत्र च जिनदत्तगणीति कविना श्लिष्टं स्वनाम निर्दिष्टं तत्र चायमर्थः जिनदत्तगणिन् जिनदत्ताचार्य इत्यात्मसम्बोधनं गुणशब्देनादावुपलक्षितं शतं गाथानामिति दृश्यं गुणशतमिति अग्रे तु यः पूर्व प्रतिपादितः स एवार्थ इति गाथार्थः ॥१५०॥
इति श्रीजिनदत्तसूरियुगप्रवरविरचितस्य श्रीगणधरसार्द्धशतकाख्यप्रकरणस्य वृत्तिः समाप्ता ॥
जज्ञे श्रीजिनदत्तसूरिसुगुरोः पट्टाचलोद्योतन
स्फूर्जज्ज्ञानरुचिप्रतानतनुतानीता नतोद्यत्तमाः । सूरिः श्रीजिनचन्द्र इत्यपमलप्राञ्चत्सुवृत्तातुल:
सौन्दर्यादिकवर्यनिर्मलगुणैश्चित्रीथितक्ष्मातलः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org