________________
२४०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे इति श्रीसिद्धचक्रोपरि श्रीपालकथानकं संपूर्णम् ।।
[4209 ] आदि :-प्रणम्य वीरं घनकर्ममुक्तगणाधिपं गौतमसंज्ञमग्र्याम् ।
कुर्वे यथाबुद्धि चरित्रमय्यश्रीपालराज्ञोद्भुतपुण्यकारि ॥१॥ आदौ प्राकृतभाषया विरचितं श्रीहेमचन्द्रर्षिणा
तच्छास्त्रं सुखबोधकारणकृते सुझं मया चर्च्यते । तत् संवीक्ष्य पुरातनैर्बुधवरैरीक्ष्य स्वचित्ते कृपा ___ कर्त्तव्या मम बालिशस्य बहुलं धैर्य समासृत्य वै ॥२॥
अहंदादिनवपदानि हृदयकमलमध्ये ध्यात्वा उत्तमं श्रीसिद्धचक्रमाहात्म्यमहं किञ्चिज्जल्पामि।
अन्तः- श्री वज्रसेनगणधरस्य पट्टाधीश्वराः श्रीहेमतिलकसूरयस्तेषां शिष्यै रत्नशेखरसूरिभिः पूज्यत्वाद् बहुवचननिर्देशः । इयं श्रीपालनरवरेन्द्रकथा संकलिता रत्नशेखरसूरिभिरस्याः कथाया अनुक्रमेणोपयोगं विधाय पूर्वाचार्य्यकथनानुवादेन परिपाटी बद्धेत्यर्थः । पूर्वं तु कण्ठस्थाऽभूदिति संभाव्यते तच्छिष्यहेमचन्द्रेण साधुना गुरुभक्तिकलितेन विक्रमार्कसमयादष्टाविंशत्यधिके चतुर्दशशते (१४२८) व्यतीते सतीत्यर्थः संवत्सरे । पत्रेषु गाथारूपेण रचनां विधाय लिखितेत्यर्थः । यावन्महीतले सागरो वर्तते यावच्च मेरुः पर्वताधीशो वर्त्तते यावच्च गगनतले शशि-सूर्यौ वर्तेते तावकालपर्यन्तमेषा कथा वाच्यमाना नन्दतु आचन्द्रतारकं जगति वाच्यमाना भविकैः श्रूयमाणा सति(ती) भविकानां परमानन्दातिरेकं वितनोत्वित्यर्थः । गाथानिबन्धानुसारेण मया गद्यबन्धेनेयं कथा मन्दबुद्धिनामुपकाराय कृता, अस्यां यन्मया मन्दबुद्धितयाऽशुद्धं लिखितं तत्कृपालुभिर्विद्वद्भिर्ममोपरि कृपां विधाय संशोध्यमियर्थः । इति श्रीसिद्धचक्रमाहात्म्ययुता श्रीमहानरवरेन्द्रश्रीपालकथा सम्पूर्णतामगात् ।
श्रीलुम्पकाख्येऽभवदच्छकीर्तिर्गच्छे सदा भाग्यविशालशाली । नाम्ना महर्षि : ] हरचन्द्रजित्को बभूव दक्षो बुधराजिराजिते ।।१।। तच्छिष्यवों यशसा प्रसिद्धो नाम्ना यशोरूप इति प्रतीतः । तत्पाद संसेवनचञ्चरीकः परोपकाराय गुरुप्रहर्षः ॥२॥ वर्षे सप्त-मुनीभ-चन्द्र(१८७७)प्रमिते मासे वरे चाश्विने
पक्षे चन्द्रकलाकलापरुचिरे शुभ्रे चतुर्थी तिथौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org