________________
२३४]
अथ प्रशस्तिः
-
मुनिराजश्रीपुण्यविजयनां हस्तप्रतिसंग्रह श्रीवीरार्हद्गौतम-सुधर्म-जम्बूप्रभूरुकेवलिनः । अभवन् श्रुतकेवलिनः प्रभवाद्याः स्थूलभद्रान्ताः ॥१॥ तत एवार्यमहागिरिः सुहस्तिमुख्याश्च वज्रपर्यन्ताः । दशपूर्वधरा अभवंस्तस्मात् श्रीवज्रसेनगुरुः ॥२।। तशिष्याश्चत्वारश्चन्द्रो नागेन्द्र-निर्वृती अपरौ । विद्याधरस्त्वमीभ्यो गच्छचतुष्कं प्रवृत्तमिह ॥३॥ नाइलापरनाम्नः श्रीचन्द्रगुरोविजयसेनसूरिरभूत् । सातिशयोऽशिवशामनकृतान्यसामन्तभद्राख्यः ॥४॥ तत्पट्टे विजयप्रभसूरिरभूच्च सूरिजयचन्द्रः । श्रीदेवचन्द्रसूरिः श्रीधर्मसमुद्रसूरिरितः ॥५॥ दुःषमसमयातिशयात् प्रायस्तनुमानसौजसोहन्यिा । षष्ठाशक्तेः कैश्चिच्चतुर्दशीपाक्षिकमकारि ॥६॥ पञ्चत्रिंशदधिकशतसूरियुजा येन नो परं मुमुचे । राकापाक्षिकमर्हत्प्रणीततिथ्या अधिकरागात् ॥७॥ मूलविधेरत्यागात् प्रीतैर्विबुधैर्घनैर्जनैर्यस्य । सुविहितबिर(रु)दमदायि श्रीधर्मसमुद्रसूरिरसौ ॥८॥ त्रिभिर्विशेषकम् । कुशलप्रभसूरिरथो श्रीरत्नप्रभगुरुजिनेन्द्राभः । सूरिश्चारित्रप्रभगुरुरुदयप्रभगुरुः श्रीमान् ॥९॥ श्रीशातवाहननृपोपरोधतोऽकारि कालिकाचार्यैः । पर्युषणा च चतुर्थ्यां यदैव समये पुनस्तस्मिन् ॥१०॥ अजनि श्रीदेवेन्द्रप्रभसूरिः पर्व वार्षिकं येन । नाचीर्णं चतुर्थ्यां जयद्रथोत्तरपुरस्थेन ॥११॥ युग्मम् । सूरिः कुमारधर्मो जिनदेवगुरुयशोदेवः । श्रीविजयचन्द्रसूरिः सूरक्ष्मापप्रबोधकरः ॥१२॥ श्रीविमलप्रभसूरिः पुण्यप्रभसूरिरथ च जयघोषः । सूरिस्तु विजयघोषः सूरिः श्रीविजयधर्मगुरुः ॥१३॥ श्रीकुमुदचन्द्रसूरिभव्यकुमुदबोधकरणचन्द्रसमः । षविकृतिपरित्यागी दत्तिचतुष्काशनग्राही ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org