________________
२३२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे __ संवत् १७६० वर्षे महामाङ्गल्यप्रदे कार्तिकमासे शुक्लपक्षे एकादश्यां चन्द्रदिने लिखितमिदं शास्त्रं पूज्यजयरामर्षिस्तस्य शिष्येण हीरर्षिणा कुंजपुरीस्थिते सति । शुभं भूयात् ॥
पुस्तकलिखनपरिश्रमवेत्ता विद्वज्जनो नान्यः ।
सागरलङ्घनखेदं हनुमानेकः परं वेत्ति ।। [ 4194 ] आदिः-श्रीजिनकुशलसूरिजीसद्गुरुभ्यो नमः ॥
प्रसादतः श्रीनिधि-सद्गुरूणां विशुद्धवैराग्यकरं मनोज्ञम् । समीक्ष्य राजर्षियशोधरस्य वक्ष्ये चरित्रं सुतरां पवित्रम् ॥७॥ श्रीहरिभद्रमुनीन्द्रैर्विहितं प्राकृतमयं तथाऽन्यकृतम् । संस्कृतपद्यमयं तत् समस्ति यद्यपि चरित्रमिह ॥८॥ तदपि तयोर्विषि(?ष)मत्वादर्थावगमो हि तादृशो न भवेत् । तदहं गद्यमयं तत् कुर्वे सर्वावबोधकृते ॥९॥ श्रीमत्तीर्थपतिजगत्त्रयमतः श्रीवर्द्धमानः प्रभुः
जीयात् तत्पदपङ्कजैकमधुकृत् श्रीमत्सुधर्मा गुरुः । तत्संतानसमुद्भवा युगवरा देवर्द्धिमुख्यास्ततः
पूज्यश्रीहरिभद्रसूरिंगणभृद्वर्या गणाधीश्वराः ॥१॥ सज्ज्ञानाद्भुतवर्द्धमानसुगुरुश्चारित्रिणामग्रणीः
श्रीमत्सूरिजिनेश्वरः सुविदितः श्रीजैनचन्द्रस्ततः । संविग्नो(ज्ञो)ऽभयदेवसूरिमुनिराट् श्रीमजिनाद्वल्लभः
पूज्यश्रीजिनदत्तसूरिंगणभृन्मुख्या मुनीन्द्रास्ततः ॥२॥ सूरीन्द्राः सुतरां जिनादिकुशल-श्रीजैनभद्रादय___ स्ते सर्वेऽपि जयन्त्वमी धु(६)वयुगप्राधान्यमाबिभ्रतः । येषां सर्वहितैषिणां सुमनसां सद्वाक्सुधास्वादतो माइग्मोहविमूर्छितोऽपि झटिति प्राप्तः प्रबोधाङ्कुरम् ॥३॥
॥ त्रिभिः संबन्धः । अपि च--
यन्मादृशोपि मूढो महता(ता) गुणवर्णनोद्यतो भवति । तत्र ज्ञानदयानिधिगुरुप्रसादो हि सद्धेतुः ।।४।।
इति सद्गुरुस्तुतिमङ्गलम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org