________________
प्रशस्त्यादिसंग्रहः ।
[२३१ यदुक्तं त्वत्र विद्वद्भिर्महसेनादिसूरिभिः ।
तत् कथं शक्यते नूनं मया बालेन भाषितुम् ॥४॥ अन्तः-एतत्प्रद्युम्नसंज्ञं गुणगणनिलयं शास्त्रमानन्दकारि
ये शृण्वन्त्वत्र भव्या विपुलमतयो भाषयन्त्यादरेण । लक्ष्मीसौभाग्यराज्यं नृ-सुरगतिभवं प्राप्य सौख्यं नितान्तं
ते नूनं यान्ति मोक्षं मुनिकुलमहिताः केवलज्ञानमाप्य ॥६७|| नो जानामि निनादशास्त्रमनधं काव्यादि तर्कादि नो
सालंकारगुणैयुतानि नियतं जानामि छन्दांसि न । नो कीर्त्यादिसुवाञ्छया न च मया मानाभिभूतेन भोः
यत् प्रोक्तं हरिभूचरित्रमनधं पा[पा]पनोदाय तत् ॥६८॥ नन्दीतटाख्ये विमले सुगच्छे श्रीरामसेनो गुणवारिराशिः । बभूव तस्यान्वयशोभकारी श्रीरत्नकीर्तिर्दुरितापहारी ॥७०॥ श्रीलक्ष्मीसेनोऽत्र ततो बभूव शीलालयः सर्वगुणैरुपेतः । तस्यैव पट्टोद्धरणैकधीरः श्रीभीमसेनप्रगुणः प्रवीरः ॥७१॥ श्रीभीमसेनस्य पदप्रसादात् सोमादिसत्कीर्तियुतेन लोके । रम्यं चरित्रं रचितं स्वभक्त्या संशोध्य भव्यैः पठनीयमेतत् ॥७२॥ संवत्सरे सत्तिथिसंज्ञकेऽत्र पुनश्च त्रिशैकयुते(१५३१)पवित्रे । कृतं चरित्रं तु सहस्य मासे त्रयोदशीनाम्नि तिथौ शुचौ ज्ञे ॥७३॥ यावन्मेरुमहीतलेति विदिते यावद्रवेमण्डलं
यावज्जैनमतं परं ग्रहगणा यावत्सतां चेष्टितम । तावन्नन्दतु शास्त्रमेतदमलं श्रीशान्तिचैत्यालये
भक्त्या येन विनिर्मितं सुखकरं तस्यास्तु संघस्य च ॥७४॥ यावद्भूमेव(हिं) कूपारा यावचन्द्रार्क-तारकाः । तावन्नन्दत्विदं नूनं चरित्रं पापनाशनम् ॥७५।। चतुःसहस्रसार्धाष्टं शास्त्रं विरचितं मया ।। भूतले सततं जीयात् तीर्थङ्करप्रसादतः ॥७६।।
इति सोमकीा विरचिते [प्रद्युम्नचरित्रे श्रीप्रद्युम्न-शंबु(शाम्ब)-अनु(नि)रुद्धादिनिर्वाणगमनो नाम षोडशः सर्गः संपूर्णः । समस्तु सर्वसंघस्य सर्वदा सत्यम् । ग्रन्थाग्रन्थ ४८५० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org