________________
१ प्रशस्त्या दि सङ्ग्रहः।
[3766] आदिः- सिद्धं सम्पूर्णभव्या सिद्धेः कारणमुत्तमम् ।
प्रशस्तदर्शन-ज्ञान-चारित्रप्रतिपादनम् ॥१॥ सुरेन्द्रमुकुटाश्लिष्टपादपांशुकेशरम् । प्रणमामि महावीरं लोकत्रितयमङ्गलम् ॥२॥ वन्दे नमीश्वरं भक्त्या त्रिदशाधिपवन्दितम् । त्रिजगत्पूज्यपादाब्जं समस्तापविनाशनम् ॥३॥
रत्नत्रयपदप्राप्त्यै स्तुवे रत्नत्रयं सदा । यस्य प्रसादमासाद्य मल्लिस्तीर्थकरोऽभवत् ॥९॥ श्रीजिनेन्द्रमुखोद्भूतां भारती त्रिजगन्नुताम् । अज्ञाननाशिनी स्तोष्ये विश्वतत्त्वप्रदीपिकाम् ॥१०॥ वन्दे वृषभसेनादीन् गणाधीशान् गुणाम्बुधीन् । सर्वाङ्गपारगान् नित्यं शिरसा तद्गुणाप्तये ॥११॥ कवीश्वरान् नमाम्यत्र कुन्दकुन्दादिकान् श्रुतान् । आचार्यानतिविख्यातान् बाह्यान्तर्ग्रन्थिवर्जितान् ॥१२॥ अथ सन्मार्गदातारं गुरुं निम्रन्थनायकम् । भक्त्या सकलकी.ल्यं वन्दे तं गुणभूषितम् ॥१३॥ पूर्वाचार्योंदितान् ज्ञात्वा शास्त्रान् सम्यगिमां कथाम् । सुखावबोधां कुर्वेऽहं न कापि निजबुद्धितः ॥१४॥ गजेन्द्रक्षुण्णमार्गेऽहो : मृगा यान्ति सुखेन च । सुभटाग्रेसरान् नूनं प्रविशन्ति भटा रणे ॥१५॥ लोकाः पश्यन्ति सौख्येन पदार्थान् रविदर्शितान् । यथा विशति सत्सूत्रं हीरोत्क(त्की)णे मणौ स्वयम् ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org