SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ १४६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे जगद्वन्द्यैस्तैस्तैर्गणधरगुणोधैस्तिलकितान् गुरून् वन्दे प्रीतः श्रुतजलधिपारप्रणयिमः । शिशुप्रेम्णा सोहं निबिडजडिमग्रन्थिरपि यः प्रसादस्मेराक्षैविबुधपदवीं लम्भित इमाम् ॥ ३ ॥ श्रीपद्मदेवाभिधसूरिपुंगवैः स्फुटं निबद्धस्य यथोपदेशतः । विरच्यते साधु विवेकमञ्जरीनाम्नः प्रबन्धस्य मया विवेचनम् ॥ ४ ॥ वृ०अंत:- इति श्रीपद्मदेवप्रभसूरिविरचिता विवेकमञ्जरीसूत्रवृत्तिः समाप्ता ।। आसीच्चन्द्रकुलावतंसकरिणश्चारित्रचूडामणिः श्रीदेवाख्यमुनि(नी)श्वरस्तदनु च श्रीनेमचंद्राभिधः ।। तस्योदयोतननामकोजनि यशोदेवाख्यसूरिस्ततः सर्वागीणगुणौघरत्नजलधिः श्रीसर्वदेवाह्वयः ॥ १ ॥ एतस्माज्जयसिंहसूरिरखिलाचार्यावलिग्रामणी जज्ञे धर्मविधेः प्रबन्धनिपुणश्रेष्ठो विशिष्टाशयः । दीप्यद्दीपशतैरिवामलहरै रत्नैरिवार्णोपते यस्मादु[ज् ]ज्वलशिष्यरत्नविरहैर्भूयौभिरभ्युद्गतम् ॥ २ ॥ शिष्यास्तस्य तरोरिवायतचतुःशाखोपमाना इमे श्रीचंद्रप्रभू(भ)सूरिरित्यघरथश्रेणीच्छिदां कुञ्जरः । श्रीभद्रेश्वरसूरिरभुतगुणश्चारित्रिणामग्रणी[:] श्रीमच्छीलगणप्रभुर्गणधरः श्रीपद्मदेवाभिधः ॥ ३ ॥ तत्राद्यः कलिकालकुञ्जरकराकान्तागमैका स्थितिः क्षोणीपालसुतप्रपालनपटुः श्रीचंद्रसूरिप्रभुः । रत्नाधारतयात्मनि प्रमुदिता धात्री क्षितीशाग्रतो यद्वादीन्द्रजयक्षणेऽङ्कुरमिषादुर्वासु रोमांचिता ॥ ४ ॥ तत्पट्टे च युगप्रधानगणभृच्चूडामणेर्विश्रुतः स्याद्वादीन्द्रविचित्रदुष्करतपश्चारित्रपूतात्मनः । स्मृत्वा तं जयसिंहभूपतिरहो यस्यांहिपद्मद्वयीं दुःखादुद्धृतवानभूदिह विभुः श्रीधर्मघोषाभिधः ॥ ५ ॥ पूज्यः श्रीजयसिंहनामगणभृत्पट्टप्रतिष्ठोदयाः श्रीमच्चन्द्रकुलावचूलसुहृदः सौहार्दलीलाभुवः । सश्रीकः प्रभुपादेवगुरवो यन्नाम संस्मर्यते मन्त्रादप्यतिशायिपर्वणि जनैर्दुःखासिकायामपि ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy