SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ १०८] ... मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे अन्त:- गुरोः कृतस्य भावतः प्रभेण सूरिणा सतः । स्तवस्य पाठतः प्रगे सुखानि सन्तु सत्सताम् ॥ ८ ॥ इति श्रीसद्गुरुश्रीमहिमाप्रभसूरिस्तुत्यष्टकं संपूर्णम् । शुभं भवतु । संवत् १७८३ वर्षे ज्येष्ठ सुदि ३ शुक्रे लिखितम् ॥ अव० आदि:- प्रणम्य परमज्योतिर्महिमाप्रभसंभवम् । करोम्यस्य स्तवस्यार्थ श्रीभावप्रभसूरिराट् ।। १ ।। सकलेति-महिमाप्रभसूरिराट् श्रीमहिमाप्रभनामा सूरिराजः आचार्यः स्वामी विजयते. ... ... अव०अन्त:- अथ प्रमाणिकाछन्दः। सा प्राह प्रगे प्रभाते गुरोः श्रीसूरेः स्तवस्य पाठतः भणनात् सत् निरन्तरं सतां सज्जनानां सुखानि सन्तु भवन्तु इत्याशीवचःकथनं स्तुस्त्यष्टकान्ते मांगल(ल्य)हेतुत्वात् । कथंभूतस्य स्तवस्य भावतः प्रभेण भावशब्दात् अग्रे प्रभयोजनेन भावप्रमेण नाम्ना सूरिणा आचार्येण कृतस्य वचनरचनागुम्फितस्य अथवा प्रमेण उत्कृष्टकांतिना एवं विधेन सूरिणा पण्डितेन अथवा आचार्येण भावतः निजमनोरसिकत्वेन कृतस्य भावत इति पदेन न तु कस्यचित् प्रेरकस्य बलात् किन्तु निजगुरौ भक्तिरागातिशयत्वा. दिति । पुनः कथंभूतस्य स्तवस्य सतः शोभनस्य ॥८॥ इति श्रीस्वोपज्ञश्रीमहिमाप्रभसूरिस्तुत्यष्ट[क]स्य विवरणं श्रीभावप्रभसूरिकृतं संपूर्ण शिष्य-प्रशिष्याणां पठन-पाठनहेतवे ॥ श्रीः ॥ [2255 ] आदिः - प्रणम्य भक्तया ऋषभ जिनोत्तमं सम्यक् नमस्कृत्य गजाननं गुरुम् । वास्तुप्रतिष्ठादिविचारमध्याद् देवप्रतिष्ठादिस्वजं करोमि ॥ १ ॥ स्वे(श्वे)तांबराशांबरशिल्पशास्त्रे पृथक् पृथगमान्यमतांतरं महत् । सम्यगधियालोक्य समग्रशास्त्राद् विरच्यते देवनिधानम्मला(माला) ॥२॥ प्रतिष्ठाविधाने तथा शुभस्थाने प्रासादार्चने सद्मनि देवस्थाप्ये । व्रतोद्यापने तथोत्पातकाच्च च सदा शांतिकर्म प्रशस्तं विधेयम् ॥ ३ ॥ वाप्याराम-तडाग-कूप-भुवनारंभप्रतिष्ठाव्रता रंभाचार्यनृपाभिषेकसमये कुर्यात् सुरस्थापनम् । दुष्टोत्पातकराजविग्रहगते विद्युच्च निर्घोषके यात्रासंकटकाकसंगमगते स्यात् शांतिकर्म विदुः ॥ ४ ॥ श्रीमदमरविजयाख्यः सस्नेहं उत्तम प्रति । इत्येवं कथयामास प्रतिष्ठाकल्पः क्रियताम् ॥ ५ ॥ तथैवं नरविजयेन सादरं कथितं मम । सुबोधं तु सुरम्यं च पूजाविधिः विरच्यताम् ॥ ६ ॥ हैमाचार्यैः कृतं कियत् कियत् समयसुन्दरैः ।। तदनुग्रहात् प्रवक्ष्यामि सूचिदवरकयोरिव ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy