SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ 700 ] अन्तः---- इति श्रीकल्पसूत्रांतर्वाचिः(? च्यः) समाप्तः ।। __ संवत् १६७७ वर्षे अश्विनमासेऽसितपक्षे तृतीयायां बुधे श्रीपूर्णिमापक्ष परमपूज्यभट्टारकश्री५श्रीललितप्रभसूरींद्राणां विजयराज्ये वाचकगुणजी लिपीकृतंथारवाडाद्रंगे ॥ यदक्षर-पदभ्रष्टं स्वर-व्यञ्जनवर्जितम् ।। तत् सर्व कृपया देव! क्षमस्व परमेश्वर ! ॥१॥ [701 ] अन्तः-महत्पंचकल्पभाष्यम् । संघदासक्षमाश्रमणविरचितं समाप्तमिति ॥ गाहग्गेणं पंचवीस सत्ताई चतुहत्तराई गाथा ॥२५७४।। सिलोयग्गेणं बत्तीस सताणि दस अट्ठासहियाई ॥३२१८॥ संवत् १६७२ वर्षे श्रावणवद ११ दिने श्रीमज्जेसलमेरुमहादुर्गे सकलक्षितिपालमण्डलमण्डनराउलश्रीकिल्याणदासजी-कूवरश्रीमनोहरदासजीविजयराज्येश्रीखरतरविधिपक्षे सकलजिनशासनरक्षाकरणदक्षसाहिसलेमप्रदत्त-सवाईयुगप्रधानजिनशासनपतिसाहबिरुदद्वयधारकश्रीजिनचन्द्रसूरीश्वर-पट्टालंकारयुगप्रधानभट्टारकश्रीजिनसिंहसूरिषु भणसालीगोत्रीयश्रीमलसाह-पुत्रथाहरु-तत्पुत्ररत्नहरिराजमेघराजजु(यु)तेन स्वकृन्नूतनभाण्डागारे श्रीपञ्चकल्पबृहदभाष्यं पं.थिराकेन लिपीकृतम् । संवत् १७४५ वर्षे काती(तिक)सुदि ५ दिने भन्थाहरु-पुत्रमेवराज-तत्पुत्रभोजराजपुत्र्या संखवालथिरराजधर्मपत्न्या श्राविकाकत्तनाम्न्या विहारिता प्रतिरियं श्रीजिनचन्द्रसूरीश्वराणां ज्ञानभक्त्यै श्रीजेसलमेरमध्ये । [702 ] अन्तः- सव्वसुयसमूहमती वामकरगाहियपोत्थया देवी । जक्खकुहुंडोसहिया देंतु अविग्घं भणंताणं ॥१॥ संवत् १९१२ वर्षे वैशाख वदि ११ गुरुवारे । लिपीकृतं गुसांईशंकरयति श्रीविक्रमपुरे वरे रम्ये । [703 ] अन्तः- पंचकल्पचूर्णिः समाप्ता ॥ ग्रन्थप्रमाणं सहस्रत्रयं शतमेकं पंचविशत्युत्तरं लिखितं श्रीमदाम्रदेवाचार्यकृते पञ्चकल्पपुस्तकम्, अंकतोऽपि ग्रन्थप्रमाणम् ३१२५ ॥ संवत् १९१२ वर्षे वैशाखशुदि ८ दिने लिखितम् । गुसाईशंकरयतिना श्रीमद्विक्रमपुरे वरे । धन्यास्ते येऽपि तारुण्ये त्यक्त्वा साम्राज्यसंपदम् । दुर्द्धरं च तपस्तप्त्वा पुन यान्ति संसृतौ ।। [711 ] आदिः - ॥ ॐ नमः श्रीजिनप्रवचनाय ॥ जयति महोदयशाली भास्वान् श्रीवर्द्धमानतीर्थपतिः । विशदं चरणपथं सा तपस्थितिर्यदुदिता तनुते ॥१॥ जयति प्रवचनदीपः प्रतिहतदुरपोहमोहतिमिरौधः । चित्रं निरञ्जनोऽयं जगति गुणग्रामवृद्धिकरः ॥२॥ सकलत्रिलोकविस्मयविधायिनिस्सीमधीगुणातिशयान् । बहुविधलब्धिसमृद्धान् निखिलानपि गणधरान् नौमि ॥३॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy