SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीजेसलमेलधुर्गस्थ [ पोथी ४३ वजाय वज्रनाथाय वञसेनाय सूरये । नमो योगीन्द्ररूपाय ब्रह्मणे ब्रह्मचारिणे ॥३॥ ये जिनाः ये जिनेन्द्राश्च वैराग्यरसधारिणः । साधवो मानवाश्चैव तेषां नित्यं नमो नमः ॥४॥ वैराग्यशतकं नाम ग्रंथं विश्व महोत्तमम् । सटीक सार्थक पूर्ण कृतं जैनाब्धिना शुभम् ॥५॥ इति । श्रीवैराग्यशतं शास्त्र महावैराग्यकारणम् । सुभाष सुगमं चक्रे समुद्रोद्यतसूरिणा ॥६॥ सूरिणा श्रीजिनाधिना [पाठां०] ॥ श्रीमत्सर्वार्थसिद्धयाः मणिस्रजि मतिना रत्नकानि धृतानि, नानाशास्त्रागरेभ्यः श्रुतश्रुतविधिना मथ्यतानि स्थितानि । प्रोद्यश्रीवेगडाख्यगगनदिनमणीनां गणीनां सुशिष्यैः, शिष्यानामर्थसिद्धयै जिनदधिरविभिः शोधनीयानि विद्भिः ॥७॥ शीघ्रगत्या यथा पत्री लिख्यतेऽत्राप्यसौ मया । लिखिता शतकटीका च शोध्या विद्भिः सतां गुणः ॥८॥ वैराग्यशतकाख्यस्य टीकायां श्रीसमुद्रभिः । सर्वार्थसिद्धिमालायां प्रकाशस्तुरीयो मतः ॥९॥ इति श्रीश्वेतांबरसूरिशिरोमणीनां परमार्हच्छासनगगनांगणदिनमणीनां भट्टारकश्रीजिनेश्वरसूरिसूरीणां पट्टे युगप्रधानपूज्यपरमपूज्यपरमदेवश्रीजिनचन्द्रसूरीश्वराणां शिष्येण भट्टारकश्रीजिनसमुद्रसूरिणा विरचितायां श्रीभर्तृहरिनामवैराग्यशतकटीकायां सर्वार्थसिद्धिमणिमालायां चतुर्थः प्रकाशोऽयं समाप्तः। श्रेयसे स्तात् । कल्याणं भूयात् । सौधर्मगच्छे गगनांगणेऽस्मिन् श्रीवज्रसूरिरभवञ्च सूरिः । युगप्रधानान्वयके प्रभाकृदुद्योतनोद्योतकरो गणीन्द्रः ॥१॥ श्रीवर्द्धमानाभिधवर्द्धमानः सूरीश्वरोऽभूच रमाप्रधानः । तत्पधारी भुवनैकवीरो जिनेश्वरः सूरिगुणैः सधीरो ॥२॥ जिनाद्यचन्द्रोऽभयदेवसूरिः क्रमेण सूरिजिन वल्लभाख्यः। तत्पट्टधारी कृतविद्यभूरियुगप्रधानो जिनदत्तसूरिः ॥३॥ पत्तिर्जिनाद्यस्तत्पट्टचन्द्रः श्रीचन्द्रपट्टे प्रवरो गणीन्द्रः । जिनेश्वरः श्रीकुशलादिसूरिः क्रमेण तु श्रीजिनचन्द्रसूरिः ॥४॥ श्रीवेगडेत्याख्यगणस्य कर्ता संपूर्णवृद्धाख्यखरस्य धर्ता । तरांत्यशब्दाभिधगच्छनेता जिनेश्वरः सूरिरभूज्जनेता ॥५॥ श्रीशेखराख्यो जिनधर्मसूरिः ततः परं श्रीजिनचन्द्रसूरिः । श्रीमरुपट्टे सुगुणावतारो गुणप्रेमः सूरिगुणैरुदारः ॥६॥ जिनेश्वरस्तस्य विनेय एव तत्पट्टधारी जिनचन्द्रदेवः। युगप्रधानः सुगुणैः प्रधानः तत्पट्टधारी सुविराजमानः ॥७॥ सरेः श्रीजिनचंद्राहवगुरोः शिष्येण चाग्रहात् । टीका शतप्रबंधस्य कृता भाषामयी शुभा ॥८॥ शिष्याणां सेवकाणां च सूर्यान्तः श्रीजिनाधिना। सर्वार्थसिद्धयाश्चाख्याया मणिमाला मनोहरा ॥९॥ युग्मम् ॥ पूर्णचन्द्राश्विपक्षाख्य २२१० प्रमिते वीरवत्सरे। पूर्णवेदसमुद्रेन्दुवत्सरे विक्रमाहवये १७४० ॥१०॥ कार्तिक्यां शुक्लपूर्णायां दिने जीवे सुयोगके। औरंगावस्य साहस्य वादे कर्णपूरे तथा ॥११॥ तत्राधीशे धनूपेऽस्मिन् बलवंशे जयेन्दुके। तीर्थे श्रीवीरनाथस्य पार्श्वे देवगिरेस्तथा ॥१२॥ आरब्धा तु मया तत्र संपूर्णाऽपि कृता तथा । चतुःषष्टिदिनैरेषा सर्वसिद्धार्थदायिनी ॥१३॥ नीतिसिंगारवैराग्याधिकारैस्त्रिशतैः शुभैः । त्रिवर्गान्वितत्रिस्कंधा रचितैषा मया [ शुभा] ॥१४॥ धर्मार्थकामसंसिद्धा निबद्धा वर्गकैस्त्रिकैः । धारयति हि वै कंठे तेषां सर्वार्थसाधिनी ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy