________________
क्र. ८२-८८ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
भूभृत्सभामध्यममध्यगच्छद् वादेषु षट्त्रिंशति यं जयश्रीः । अभूत् स विद्वज्जनवृन्दचक्री ततस्ततः श्रीजिनपत्तिसूरिः ॥८॥ श्रीमज्जिनेश्वरगुरुं जितवादियोधं सूरीश्वरं तदनु नौमि जिनप्रबोधम् । श्रीजैनचन्द्रसुगुरुं नुतनिर्विरोध सद्देशना कृतचतुर्नृपतिप्रबोधम् ॥९॥ यत्संस्मृतिप्रवणमानसमानवानामाविर्भवन्ति भुवि सर्वमुख प्रतानाः ।
प्रत्यूहसंहतिभुजंगमवैनतेयं सूरिं जिनाद्यकुशलं तमहं भजेयम् ॥१०॥ जिनपद्मसूरिराजं जिनलब्धिगुरुं नतोत्तमसमाजम् । जिनचन्द्रं निर्व्याज जिनोदयं नौमि जिनराजम् ॥११॥ पट्टे तब जिनभद्रसूरिः सौभाग्यभाग्यैकनिधिर्दिदीपे । सूत्रार्थजांबूनदसत्परीक्षाकषोपलप्रख्यविशुद्धबुद्धिः ॥१२॥ निरुपमप्रतिभाप्रतिभासनः स जिनचन्द्रविभुः शुभशासनः ।
तदनु तस्य प्रशस्यगुणोदधिजिनसमुद्रगुरुः सुपदंदधिः ॥१३॥
१९१
तदीयपट्टांबुजराजहंसाः सुरप्रसादाप्तजनप्रशंसाः । विचक्षणश्रेणिशिरोवतंसाः कृतोल्लसन्मुक्तिरमारिरंसाः ॥१४॥ यैव प्रथमाङ्गस्य दीपिकाऽर्थप्रदीपिका । ते जिनहंससूरीन्द्राः जीयासुर्गुवो मम ॥ १५ ॥ युग्मम् ॥ तत्पट्टलक्ष्मीतिलकानुकारा बभूवुरुद्दामगुणैरुदाराः । सूरीश्वरा लब्धनरेन्द्रमानाः श्रीजैनमाणिक्यवराभिधानाः ॥ १६ ॥ तत्पट्टोदयशैलराजशिखरप्रयोतनोद्योतिनो राजंते जिनचन्द्रसूरिगुरवस्ते सांप्रतं भूतले । यत्प्रतप्रकटप्रतापमहिमामुद्वीक्ष्य विस्तारिणों, प्रोन्मादिप्रतिवादिकौशिककुलं त्रस्तं समस्तं क्षणात् ॥१७॥ संप्राप्य तदादेशं श्रीमज्जिनहससू रिशिष्यवरैः । श्रीपुण्यसागरमहोपाध्यायैरल्पमतिगम्या ॥१८॥ एषा जंबूद्वीपप्रज्ञप्तेर्वृत्तिरादराद् विदधे । श्रीमत्पार्श्वजिनेश्वर - निजगुरुविशदप्रसादवशात् ॥१९॥ श्री अभयदेवसूरि श्रीमन्मलयगिरिकृत विविधवृत्तीः । सम्यग् विचार्य बुद्धया विलोक्य चान्यानि शास्त्राणि ॥ २० ॥ त्रिभिः कुलकम् ॥
वाचकाः पद्मराजाख्या अत्र साहायकं व्यधुः । तथा विशुद्धिमेतस्या युक्तायुक्तविवेचकाः ॥२१॥ आलस्यमपास्य निजं प्रथमादर्शे लिलेख सोल्लासम् । वृत्तिमिमां सन्महिमां विशुद्धधर्ज्ञानतिलकगणिः ॥२२॥ मोहाद्यदत्राभिद्दितं विरुद्धं सत्संप्रदायस्य वियोगतो वा । दयालुचित्तैर्हृदयालुभिस्तन्मात्सर्यमुत्सार्य विशोधनीयम् ॥२३॥ श्रीमज्जेसलमेरुदुर्गनगरे श्री भीमभूमीपतौ, राज्यं शासति बाणवारिधिरसक्षोणी मते वत्सरे । पुष्यार्क मधुमास शुक्ल दशमीसद्वासरे भासुरे, टीकेयं विहिता सदैव जयतादाचन्द्रसूर्य भुवि ॥ २४॥
त्रयोदश सहस्राणि द्वे शते पंचसप्ततिः । प्रायेणास्या ग्रंथमानं प्रत्यक्षरनिरूपणात् ॥२५॥
ग्रंथा १३२७५ शुभं भवतु । संवत् १६५२ वर्षे राउल श्री भीमजीविजयराज्ये युगप्रधान श्रीजिनचन्द्रसूरिसूरीश्वरविजयराज्ये आचार्यश्रीजिनसिंहसूरियौवराज्ये श्रीपुण्यसागरमहोपाध्यायानामुपदेशेन श्रीऊकेशवंशे श्रीशंखलवालगोत्रे सा. कोचरसंताने सा. राजा तत्पुत्र सा. सारंग तत्पुत्र सा. रतनसी सा. जइतसी तत्पुत्र सा. थिरराजसु श्रावकेण स्वपितुर्द्रव्यश्रेयोर्थ ज्ञानभक्त्यर्थे च श्रीजेसलमेरुसत्कज्ञानकोशे श्रीजंबूद्वीपप्रज्ञप्तिवृत्तिप्रतिरेषा ॥ सा वाच्यमाना चिरं नंदतु ।
Jain Education International
इदं पुस्तकं लिखितं संवत् १९८५ वईशाखमासे कृष्णपक्षे १५ अमावास्या शुक्रवारे समाप्तम् ॥ लिखितं माहात्मा टीकमचंद नीवासी बीकानेर हाल जेसलमेर समाप्तम् । शुभं भवतु । श्री । श्री ॥ जयशील मेरुवास्तव्येन वैद्यमनःसुखदासात्मजेन व्यासज्येष्ठमलकाव्यतीर्थेन संशोधिता ।
क्र. ८६ चंद्रप्रशतिउपांगसूत्रवृत्ति पत्र १६५ । भा. सं. । क. आचार्य मलयगिरि । ग्रं. ९५०० । ले. सं. १९८३ । स्थि. श्रेष्ठ | पं. १५ । लं. प. १२।४५|
क्र. ८७ (१) गुरुगुणषट्त्रिंशत्षट्त्रिंशिका सटीक पत्र १ - १६ । भा. प्रा. सं. 1 क. रत्नशेखरसूरि स्वोपज्ञ |
For Private & Personal Use Only
www.jainelibrary.org