________________
[ पोथी ९
आचार्याद् विदितात् समस्तभुवने श्रीमत् कृपाचन्द्रतः संस्था लोकदिगंकचंद्रगणिते संवत्सरे संस्थितिम् । लेमे जेसलमेरपत्तनवरे जीर्णागमोद्धारिणी भव्यानां सुविचारकारणमिदं लोके तयोल्लेखितम् ॥१॥ संवत् १९८३ रा मीती आसो सुदी ९ नवु वार सुकरवार चंदरमा मकरको ॥
पोथी ९ मी
क्र. ८२ (१) उपासकदशांगसूत्र पत्र १-१६ । भा. प्रा. । क. सुधर्मास्वामी । ग्रं. ८१२ । (२) अंतकृद्दशांगसूत्र पत्र १६ - ३१ । भा. प्रा. क. सुधर्मास्वामी । ग्रं. ७९० । (३) अनुत्तरौपपातिकदशांगसूत्र पत्र ३१ - ३५ । भा. प्रा. । क. सुधर्मास्वामी । ग्रं. १९२ । (४) प्रश्नव्याकरणदशांगसूत्र पत्र ३५-५८ । भा. प्रा. । क. सुधर्मास्वामी । ग्रं. (५) विपाकसूत्र पत्र ५८ - ८१ । भा. प्रा. क. सुधर्मास्वामी । ग्रं. १२१६ । ले. सं. १९८३ । स्थि. श्रेष्ठ । पं. १६ । लं. प. १२।४५
१२५० ।
१९०
अन्त
श्रीजेसलमेरुदुर्गस्थ
क्र. ८३ जम्बूद्वीपप्रज्ञप्तिउपांगसूत्रचूर्णी पत्र ४० । भा. प्रा. । ग्रं. १८६० । ले. सं. १९८३ । स्थि. श्रेष्ठ । पं. १४ । लं. प. १२१४५
क्र. ८४ जंबूद्वीपप्रज्ञप्तिउपांगसूत्रचूर्णी पत्र ३९ । भा. प्रा. ग्रं. १८६० । ले. सं. १९८३ | स्थि. श्रेष्ठ । पं. १४ । लं. प. १२॥५५॥
अन्त
लेखक माहात्मा दुलीचंद नीवासी बीकानेर संवत् १९८३ मीती फागण सुद ५ श्रीरतुः । श्रीमान् सूरिवरो महामुनिकृपाचन्द्रः कलौ धर्मराट् प्राप्तो जेसलमेरनाम्नि नगरे क्ष्मां पावयन् स्थापिता । संसत्तेन वरा परोपकृतये जीर्णागमोद्धारिणी वर्षे वह्निवसुग्रहेन्दुगणिते ग्रन्थस्तथा लेखितः ॥१॥
क्र. ८५ जंबूद्वीपप्रज्ञप्तिउपांगसूत्रवृत्ति पत्र २३५ । भा. सं. । क. पुण्यसागर महोपाध्याय । ग्रं. १३२७५ । र. सं. १६४५ । ले. सं. १९८५ । स्थि. श्रेष्ठ । पं. १६ । लं. प. १२/४५ ।
अन्त
इति श्री बृहत् खरतरगच्छावतंस श्रीजिनहंससूरिशिष्यश्री पुण्यसागरमहोपाध्यायविरचिता श्रीजंबूद्वीपप्रज्ञप्तिवृप्तिः समाप्ता ॥
श्रीमच्चन्द्रकुले सुधर्मगणभृत्पट्टानुपूर्वीभवाः, श्रीउद्योतनसूरयः समभवन् ज्ञानक्रियाशालिनः । ध्यानाराधितनागराट्प्रकटितश्रीसूरिमन्त्रस्फुरन्माहात्म्या गुरवस्ततो रुरुचिरे श्रीवर्द्धमानाभिधाः ॥१॥ श्रीमद् दुर्लभभूमिवल्लभसभाध्यक्षं पुरे पत्तने, वर्षे पुष्करदिग्गजाभवसुधासंख्ये सुसंख्यावता । जित्वा चैत्यनिवासिनः खरतरेत्याख्यां समासादयामासे येन जिनेश्वरः स भवतात् सूरीश्वरः श्रेयसे ॥२॥ संवेगरंगशाला विनिर्ममे यैः कथानकरसाला । तेऽभूवन् जिनचन्द्राः सूरिवराः प्रणतकविचन्द्राः ॥ ३ ॥ गुरुगमनयभंगीसंगरंगन्नवाङ्गीनवविवृतिविधान व्यक्तिविस्फारकीर्त्तिः ।
सुगुरुरभयदेवः स्तंभनाधीशपार्श्वप्रकटनपटुरासी चक्रवती बुधानाम् ॥४॥ चामुण्डिकाप्रकटबोधनबद्धकक्षाः सूत्रोक्तमार्गभणनाचरणैकदक्षाः । चित्ते वसंतु जिनवल्लभनामधेयाः सूरीश्वरा भुवनभासुरभागधेयाः ॥५॥
येषां रैवतकाचले कृततपः श्रीनागदेवाभिधश्राद्धाराधितयांचया किल युगप्राधान्यमाविः कृतम् । श्रीजैनेन्द्रमतप्रकाशनपटुप्रागल्भलक्ष्मीजुषस्ते श्रीमज्जिनदत्तसूरिगुरवो यच्छंतु मे वांछितम् ॥६॥ तत्पदकमलमरालं ददतं फलम तुलमीप्सितविशालम् । नरमणिमण्डितभालं स्तवीमि जिनचन्द्रसुरसालम् ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org