________________
१७९
क्र. ४२६ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र जेसलभार्या पूरी तत्पुत्रास्त्रय इमे गुणैः ख्याताः । लक्ष्मीवंतो यशसा भुवनत्रयमंडनप्रवराः ॥५॥ आंबाकः प्रथमस्तत्रापरो जींदाभिधस्तथा। तृतीयो मूलराजाख्यो जातः पुण्यजनाग्रणीः ॥६॥ आंबराजस्य भार्येयं बहुरी तत्सुताविमौ। शिवराज-महीराजौ राणी स्याणी च पुत्रिके ॥७॥ वल्लभा मूलराजस्य माल्हणदेऽभिधा बुधा । सहस्रराजस्तत्सूनुः श्रीदेवगुरुभक्तिभाक् ॥८॥ मोहणभार्या पुंजी चतुरास्तत्सूनवश्च चत्वारः। कीट-पासा-देल्हा-धन्नाः संघाधिपतयोऽमी ॥९॥ कीहटभार्या जाता कपूरी तत्सुताश्च चत्वारः। प्रथमश्चोसभदत्तो धामा-कान्हाख्य-जगमालाः ॥१०॥ सरसति-कउतिगदेव्यौ द्वे भार्ये साधुपासदत्तस्य । वील्हा-विमला बंधू सरस्वतीनंदनौ जातौ ॥११॥ कउतिगदेवीपुत्राः कर्मण-हेमाख्य-ठक्कुराः प्रवराः । देल्हाकस्योत्पन्नौ पुत्रौ जीवंद-कुंपाख्यौ ॥१२॥ आल्ही सुवल्लभा जज्ञे धन्नासंघपतेस्तयोः । जगपालस्तथा नाथू-अमराख्यौ सुता इमे ॥१२॥ धन्यस्य जगपालस्य सती नायकदे प्रिया। सुते चंद्रावली हस्तू इत्याख्ये च मनोहरे ॥१॥
नायकदेश्राविकया गुरुवरजिनभद्रसूरिवचनेन । पुण्यार्थमलेखि तया संदेहविषौषधीग्रंथः ॥२॥ इतश्च
आंब्रको भुवि चतुर्दशे शते बाणबाहुमितवत्सरेऽकरोत् १४२५ । देवराजपुरि यात्रयोत्सवं श्रीजिनोदयगुरूपदेशनात् ॥१४॥ उच्चानगर्या यवनाकुलायां यः कारयामास महाप्रतिष्ठाम् । मुनिद्विविद्याप्रमिते १४२७ शुभाब्दे विस्तारतः सूरिजिनोदयास्यैः ॥१५॥ तथा मनुष्यलक्षं यः स्फुटघोटकपेटकम् । शकटानां सहस्राणि मीलयित्वा महाजनम् ॥१६॥ मार्गणानां समस्ताशासर आपूरयन् घनम् । सद्दानधारया वर्षन् मार्ग भाद्रपदाम्बुवत् ॥१७॥ चतुर्दशशते वर्षे षट्त्रिंशदधिके वरे १४३६ । श्रीजिनराजसूरीणां पादाब्जं शिरसा स्पृशन् ॥१८॥ श्रीआंबराज आदाय संघेशपदमुत्तमम् । शत्रुञ्जयोज्जयंतादितीर्थ यात्रा विनिर्ममे ॥१९॥ श्रेष्ठिकीहटधन्नाद्यैर्मातृयुंजीयुतैस्तथा । श्रीशत्रुजय-तारंगा-ऽऽरासणेषु नुता जिनाः ॥२०॥ पुनरस्तोकलोकं यो धनेश्वरमनोहरम् । अत्याडंबरतः संघं विधाय शकटोद्भटम् ॥२१॥ साधर्मिकादिवात्सल्यं कुर्वन् दानं ददन्मुदा। श्रीसंघेशपदं लात्वा श्रीजिनराजसूरियुक् ॥२२॥ चतुर्दशशते वर्ष नंदवेदमितेऽकरोत् १४४९ । यात्रां शत्रुजये तीर्थ रेवते चापि कीहटः ॥२३॥ तथा श्रीकीहटाद्यैश्च पुंजीमातुः सुबांधवैः । मालारोपोत्सवोऽकारि श्रीजिनराजसूरिभिः ॥२४॥ तदा व्रतोत्सवो भावसुदरस्य यतेरपि । चतुर्दशशते वेदबाणप्रमितवत्सरे १४५४ ॥२५॥ धन्ना-धामाभिधानाभ्यां पंचम्युद्यापनं महत् । सागरचंद्रसूरीणामुपदेशात् कृतं वरम् ॥२६॥ इतश्चास्मिन् महादुर्गे चतुर्दशशते मुदा। त्रिसप्ततितमे १४७३ वर्षे सफलीकुर्वता धनम् ॥२७॥ संघाधिपतिना श्रेष्ठिधनराजेन साधुना। मगपालसुताद्यात्मपरिवारयुतेन वै ॥२८॥ सर्वसंघं समाकार्य मानादेशनिवासिनम् । विशिष्टा सुप्रतिष्ठेयं बिंबानां कारितोत्तमा ॥२९॥ एवंविधानि सद्धर्मकार्याणि प्रतिवासरम् । कुर्वाणास्ते चिरं श्राद्धा विजयंते महीतले ॥३०॥
इतश्च
श्रीवीरतीर्थकरराजतीर्थ स्वामी सुधर्मा गणभृदू बभूव । तदन्वये चंद्रकुलावतंस उद्योतनः श्रीगुरुवर्द्धमानः ॥३१॥ जिनेश्वरः श्रीजिनचंद्रसूरिः संविग्नभावोऽभयदेवसूरिः। वैरंगिकः श्रीजिनवल्लभोऽपि युगप्रधानो जिनदत्तसूरिः ॥३२n
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org