SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ MO [क्र. ४०३ श्रोजेसलमेरुदुर्गस्थ पेशेऽत्र तेजोगुणवृत्तशाली मुक्तामणिः पाल्हणठक्कुरोऽभूत् । रामाभिरामश्चरितेन सीतादेवीधवत्वेन च यश्चकासे ॥३॥ .........सनजैत्रसिंहस्तदङ्गजः ठक्कुरजैत्रसिंहः । श्रीदेहिनीव स्फुटगेहनीतिज्ञा गेहिनी जाल्हणदेविरस्य ॥४॥ तत्सूनुरायो रणसिंहनामधेयो जगत्सिह इति द्वितीयः । भाभ्यां रदाभ्यामिव हस्तिराजो विराजते ठक्कुरजैत्रसिंहः ॥५॥ श्रीचन्द्रप्रभसूरिंगच्छविभवक्षीरोदचन्द्रोदयः, पूज्यश्रीगुरुधर्मघोषगणभृवंशावतंसध्वजः । श्रीचक्रेश्वरसूरि......कुलोद्योतप्रदीपः पदे, पूर्वाद्रौ दिवसेश्वरः सुमतिसिंहाचार्यचूडामणेः ॥६॥ नृपसभासु कृताखिलदिग्जयः प्रबलवादिमरट्टविघट्टनः । विविधदेशविहारपरायणोऽजनि कुलप्रभसूरिरिह प्रभुः ॥७॥ तत्पट्टलक्ष्मीतिलकानुकारः प्रणाशिताशेषमहाविकारः । ज्ञानादिकानध्यगुणौघभूरिरजायत श्रीमहसेनसूरिः ॥८॥ तत्पष्टपूर्वाचलचूलिकावचूलायमानो जयताज्जगत्याः । प्रबोधनः श्रीजयसेनसूरिसूरश्चिरं दूरमपास्ततेजाः ॥९॥ ततब तदेव सारं सारं हि सप्तक्षेश्यां यदुप्यते। कुन्तस्य नवहस्तस्य सारमय्यं यदुच्यते ॥१०॥ दालिई दोहग्गं कुजाइ-कुसरीर-कुमइ-कुगईओ। अवमाण-रोग-सोगा न हुति जिणबिबकारीणं ॥११॥ ज्ञानावारकमोहसङ्गतनिरन्ताणुक्षये जायते, श्रीसामायिकदण्डकोक्तिसमये केत्यक्षरोच्चारणा । एकस्यापि तदक्षरस्य महते पुण्याय दानं ततो, यस्त लेखयते ददाति गुरवे तत्पुण्यमानं कुतः ॥१२॥ - दीपः सद्गतिमार्गस्य तृतीय नेत्रमागमः । सद्गुरूणां मुखाम्भोजात् श्रुत्वैवं देशनागिरः ॥१३॥ माणिक्यपाटकपुरस्फुरदालवाले श्रीवीरसद्मसुकृत द्रुममूलकन्दः । आरोपितः पितुरनीयत येन वृद्धि खेलायते यदुपरि ध्वजपल्लवोऽयम् ॥१४॥ उपमितभवप्रपञ्चं लेखितवरभूरिपुस्तकः स कथाम् । बाणखगुणैकवर्षे १३०५ स्वस्य च पत्न्याश्च पुण्याय ॥१५॥ अलीलिखज्जैत्रसिंहः श्रीजयसेनसूरयः। व्याख्युः प्रशस्ति चक्रेऽस्या महीतिलकपण्डितः ॥१६॥ तमःपुजं यावद्विकिरति करैरम्बरमणिः शशी यावज्ज्योत्स्नालहरिभिरभिप्लावयति च । स्फुरत्तारापुष्पप्रकररचना खेलति नभोऽङ्गणे यावत्तावज्जयतु भुवने पुस्तकमिदम् ॥१७॥ संवत् १३०५ वर्षेठ. पाल्हणसुत ठ. जैत्रसिहेन श्रीउपमितभवप्रपंचाप्रतिरलेखि। शुभमस्तु ॥छ॥ (२) द्वितीयप्रतिपुष्पिका ले. सं. १३०५ ..........ग्रणीः स्यात् ॥१२॥ हप्टे बिम्बे साक्षाजिनो गृहेऽस्येक्षते समवसरणम् । लोकालोकालोकः श्रुतलेखनया तु केवलविदेव ॥१३॥ महर्द्धिकं श्रुतज्ञानं केवलं तदनन्तरम् । आत्मनश्च परेषां च यस्मात्तदवभासकम् ॥१४॥ रागद्वेषहरो रुषादिव...भूभृत्कुञ्जगते भवारण्ये घोरपरीषहोग्रचरटे स्पर्शादिकिपाकिनि । सन्नद्धाः शिवधाम गन्तुमनसाऽर्हत्सार्थवाहेन ये, यातास्तेन तु यान्ति सम्प्रति पुनः कल्पोपमादागमात् ॥१५॥ पुस्तके वाच्यमाने यत् सम्यक्त्वारोपणादिकम् । श्रोतृणां स्यात्तदंशेन गृह्यते पुस्तकार्पकः ॥१६॥ माल्यं निर्माल्यं स्वल्पतृप्तये भोजनादि स्यात् । क्षणकृतभावा यात्रा श्रुतदान स्थिराय पुण्याय ॥१७॥ अन्नदानात् सुखी नित्यं नीरुगौषधदानतः । ज्ञानदानाद् भवेज्ज्ञानी निर्भयोऽभयदानतः ॥१८॥ ज्ञानावारकमोहसङ्गतनिरन्ताणुक्षये जायते, श्रीसामायिकदण्डकोक्तिसमये केत्यक्षरोच्चारणा। एकस्यापि तदक्षरस्य महते पुण्याय दानं ततो, यस्तं लेखयते ददाति गुरवे तत्पुण्यमानं कुतः ॥१९॥ . ... ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy