________________
क्र. ३९५]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
णेति । स एवमुत्पन्नकारुण्यो भगवान् महर्षिश्चिन्तयितुमारब्धः-कथं मयाऽस्यान्धस्य जगतोऽनुग्रहः कर्तव्य इति । एवं विचिन्त्यासुरिसगोत्रब्राह्मणविशेषं वर्षसहस्रयायिनं दृष्ट्वाऽन्तर्हितो भूत्वा वाचमुवाच-भो भो आसुरे रमसे गृहस्थधर्मेणेति। स तमुवाच-रमेऽहं भोः । स एवमुक्तो निर्जगाम । भूयोऽपि द्वितीयवर्षसहस्रे पूर्णे प्रत्यागम्योवाच-भो भो आसुरे रमसे गृहस्थधर्मेणेति। स तमुवाच-रमेऽहं भोः। तत् श्रुत्वा पुनः स भगवान् निर्जगाम । भूयोऽपि तृतीयवर्षसहस्रे पूर्णे प्रत्यागम्योवाच-भो भो आसुरे ! रमसे गृहस्थधर्मेण ? । स तमुवाचन भो रमेऽहम् । स तेनोक्तः किं भूत्वाऽब्रबीत्-दुःखत्रयाभिघातादिति । ततः स तेनोक्तो भगवता-उत्सहसे ब्रह्मचर्यवासं वस्तुमिति । तदमीषां दुःखानां नि...............मुपदेश्यामः । सोऽब्रवी...............क्त इति । स एवं गृहस्थधर्म परित्यज्य पुत्रदारांश्च प्रवजितो भगवतः कपिलस्य शिष्यो बभूव। तत्र यदि कश्चिद् ब्रयात्-कुतोऽस्य जिज्ञासा समुत्पन्ना यया जिज्ञासया गुरुकुलमभिगत इति। तस्यैव वक्तव्यम्-दुःखत्रयाभिघाताद् जिज्ञासेति। तत्र दुःखानां त्रयं दुःखत्रयम्, त्रीणि वा दुःखानि दुःखत्रयम् , दुःखत्रये अभिघातो दुःखत्रयाभिघातस्तस्मात् दुःखत्रयाभिघाताजिज्ञासा समुत्पन्ना। ज्ञातुमिच्छा जिज्ञासा, यथा पातुमिच्छा पिपासा सोऽर्थः । किमिह परलोके याथातथ्यं कि निःश्रेयसं किं कृत्वा कृतार्थतामेतीति मत्वा गुरुकुलमभिगत इति । अन्त
शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः । संक्षिप्तमार्यमतिना सम्यग विज्ञाय सिद्धान्तम् ॥७२॥
शिष्यपरम्परयागतमिति। कपिलादासुरिणा प्राप्तम् , आसुरेः पञ्चशिषेन, पञ्चशिखाद् भार्गवोलूकवाल्मीकिहारीतप्रभृतीनां गतम्, ततस्तेभ्यः ईश्वरकृष्णेन प्राप्तम् । तेनेदं षष्टितन्त्रमार्याभिः संक्षिप्तमार्यमतिना विस्तीर्णमतिना सम्यग विज्ञाय सिद्धान्त कार्यकारणसिद्धस्य शरीरस्यान्तो न पुनर्भावो मोक्ष इति तत् सिद्धान्तं षष्टितन्त्रमिति |॥७३॥
सप्तत्या किल येऽस्तेिऽर्था कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिता परवादविवर्जिताश्चेति ॥७३॥ ये षष्टितन्त्रे पदार्था अभिहितास्ते सप्तत्या व्याख्याताः कथितास्तदुच्यते ॥
पञ्च विपर्यय...भ...............परार्थमन्यत्वमथो निवति ।
योगो वियोगि पुमांस: स्थितिः झरीरस्य च शेषवृत्तिः ॥ तत्र मेदानां परिमाणादित्येभिः पञ्चभिरर्थी । तेहेतुभिः प्रधानस्यास्तित्वमेकत्वमथार्थत्वं सिद्धम् । सङ्घातपरार्थत्वादिति परार्थता सिद्धा । तद्विपरीतस्तथा च पुमानिति प्रधानपुरुषयोरन्यत्वं सिद्धम् । रागस्य दर्शयितेति निवृत्तिः सिद्धा। पुरुषस्य दर्शनार्थमिति संयोगः सिद्धः। प्राप्तशरीरभेद इति वियोगः सिद्धः । जन्ममरणकरणानामिति पुरुषत्वबहुत्वं सिद्धम् । चक्रभ्रमवदिति शेषवृत्तिसिद्धः । एकषष्टिपदार्थाः षष्टितन्त्रे, सप्तत्यामप्येतदेव । किश्चान्यत्आख्यायिकाविरहिता स्थापनाया शिष्यायस्तद्यथा परवादविवर्जिताश्चेति परेण संवादाः परवादास्ते वर्जिताः परवादविवर्जिताश्चेति। परिसमाप्तिमित्यत्राह । कथमेतत् कल्पग्रन्थ शास्त्रं कृत्स्नार्थवाचकं भवतीत्यत्रोच्यते ॥७३॥
तस्मात् समासदृष्टं शास्त्रमिदं नार्थतश्च परिहीणम् । तन्त्रस्य बृहत्सूत्रे दर्पणसक्रान्तिमिव बिम्बम् ॥छ॥
यस्मात् षष्टितन्त्रमिति हेतुः समासदृष्टं संक्षेपतो ग्रन्थितमित्यर्थः । शास्त्रमिति शास्त्रं तीर्थोदकमहबलं कर्ता भोक्ता भोज्यो मोक्षश्चिन्त्यते । अथवा दुःखानां शास्त्रवच्छास्त्रमिति इदं इमां सप्तति दर्शयति । नार्थतश्च परिहीणम् । तेन प्रतिषेधः । अर्थ इति षष्ठीप......परिहीणमित्यर्थः । तन्त्रस्य बृहन्मूतॊ दर्पणसङ्क्रान्तमिव बिम्बम् । यथा खल्वेति दर्पणे महतो रूपस्य व्यक्तिरूपेणा.....................शास्त्रे कृत्स्नस्य षष्टितन्त्रस्याभिव्यक्तं भवतीति समाप्ताऽऽचार्येश्वरकृष्णप्रोक्तायाः साङ्ख्यसप्तत्या वृत्तिः। कृतिराचार्यम......स्येति ॥छ॥ साङ्ख्यसप्ततिवृत्तिः ॥छ॥ मङ्गलं महाश्रीः ॥छ।
क्रमाङ्क ३९५ (१) पातंजलयोगदर्शनभाष्य वृत्ति पत्र १-१६० । भा. सं. । वृ. क. वाचस्पतिमिश्र। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org