________________
૬૬
श्रीजेसलमेरुदुर्गस्थ
(२) सांख्यसप्ततिकाटीका - सांख्यतत्त्वकौमुदी पत्र १ ८० । क. वाचस्पतिमिश्र । पत्र ८० मां शोभन छे.
(३) सांख्यसप्ततिकाभाष्य पत्र १-७० । भा. सं. क. गौडपाद । ग्रं. ८५५ । ले. सं. अनु. १३ मी शताब्दी पूर्वार्द्ध । संह श्रेष्ठ । द. श्रेष्ठ । लं. प १२॥४२
क्रमाङ्क ३९३
सांख्यसप्ततिका वृत्तिसह पत्र ८९ । भा. सं. । ग्रं. १३०० । ले. सं. ११७६ । संह. श्रेष्ठ | द. श्रेष्ठ । लं. प. १२ ॥ ४१ ॥ । पत्र ५७, ५८, ६० - ६३, ६६-७४, ७६-७९ नथी.
आदि
[ क्र. ३९३
दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ । दृष्टे साsपार्था चेत् नैकान्तात्यन्ततोऽभावात् ॥१॥
अस्या आर्याया उपोद्धात इत्यत्र कपिलो नाम भगवान् महर्षिः तस्योत्पन्नशरीरः, तस्योत्पद्यमानस्य सकाशाच्चत्वारो भावाः सहोत्पन्नाः धर्मो ज्ञानं विरागमैश्वर्यमिति । तेनाऽऽत्मगतेन ज्ञानेन स भगवानिदं जगदन्धे तमसि वत्तमानं ददर्श । | तदा कारुण्यादुत्पन्नम् - अहो खल्विदं जगदन्धे तमसि वर्त्तते संसारपारम्पर्येणेति उत्पन्नकारुण्यः ब्राह्मणविशेष वर्षसहस्रयायिनं अन्तर्हितो गत्वोवाच भो आसुरे ! रमसे गृहस्थधर्मे । ' अस्मि' स तमुवाच आसुरिः - रमे भोः ! । स एवमुक्तो निर्जगाम । भूयो वर्षसहस्रे पूर्णे प्रत्यागम्य स तमुवाच भो आसुरे! रमसे गृहस्थ ? इति । तं प्रत्युवाचासुरिः - रमे भोः ! स भगवान् ततो निर्जगाम । भूयो [sपि ] तृतीये वर्षसहस्रे पूर्णे प्रत्यागम्य स तमुवाच - आसुरे ! रमसे गृहस्थधर्मे इति । तमुवाच भगवन्तं कपिलमासुरिः-न रमे भोः ! । तथोक्तो भगवता - उत्सहसे ब्रह्मचर्यं कर्तुमिति । तं प्रत्युवाचाssसुरि:- बाढमित्थमिति । स एवं गृहस्थधर्म परित्यज्य कपिलस्य शिष्यो बभूव । तत्र कश्चिद् ब्रूयात् कुतस्तस्य जिज्ञासा समुत्पन्ना आसुरिसगोत्रस्य ब्राह्मणविशेषस्य ? यया जिज्ञासया गृहस्थधर्म परित्यज्य गुरुमभिगत इति । अत्रोच्यते - " दुःखत्रयाभिघाताजिज्ञासा" ।
अन्त
शिष्यपरम्परयागत ईश्वरकृष्णेन चैतदार्याभिः । संक्षिप्तमार्यमतिना सम्यग् विज्ञाय सिद्धान्तम् ॥
अत्र शिष्यपरम्परयाऽऽगत इत्यत्र कपिलादासुरिं प्राप्तः, आसुरेरपि पंचशिखम्, पञ्चशिखाद् गार्ग्यम्, खूकचंचलिप्रभृतीनां शतं तेभ्य ईश्वरकृष्णेन एतद् ज्ञानमार्याभिः आर्याणां सप्ततिः प्रमाणं दुःखत्रयाभिघातादित्येवमादि । एतत् पवित्रमित्येवंप्रमाणं सप्ततिः कृत्वा एभिरार्याभिः संक्षिप्तमार्यमतिना । आर्या मतिर्यस्य स भवत्यार्यमतिः, भावितमतिनेत्यर्थः । सम्यग् विज्ञाय सिद्धान्तमिति ॥ सांख्यवृत्तिः समाप्ता ॥ छ ॥ ग्रन्थानं प्रन्थमानेन श्लोक १३०० ॥ मंगलं महाश्रीः ॥ संवत् ११७६ ॥
क्रमाङ्क ३९४
Jain Education International
सांख्यसप्ततिका वृत्तिसह पत्र १०२ । भा. शताब्दी पूर्वार्द्ध । संह. जीर्णप्राय । द. श्रेष्ठ । लं. प. आदि - ॐ नमः सर्वज्ञाय ॥
कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने । कारुण्यात् साङ्ख्यमयी नौरिव वहिता प्रतरणाय ॥ दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ । दृष्टे साऽपर्या चेन्नैकान्तात्यन्ततो भावात् ॥ छ ॥
सं. । मू. क. ईश्वरकृष्ण । ले सं. अनु. १२ मी १२९१ । । अंत्य पत्रमां शोभन छे ।
अस्यामार्यायामुपोद्धात उच्यते-इह हि भगवान् महर्षिः कपिलो नाम बभूव । तस्योत्पद्यमानस्याकस्माच्चत्वारो भावाः समुत्पन्नाः- धर्मो ज्ञानं वैराग्यमैश्वर्यमिति । स तेनात्मज्ञानेन सहोत्पन्नज्ञानो भगवानिदं जगदन्धे तमसि वर्त्तमानं ददर्श । तद् दृष्ट्वा तस्य कारुण्यमुत्पन्नम् -- अहो खल्विदं जगदन्धे तमसि वर्त्तते संसारपारम्पर्ये -
For Private & Personal Use Only
www.jainelibrary.org